________________
(४४)
सङ ख्यता न स्यात् । 'आसन्नः'।७।४ । १२० । इति परिभाषाश्रयणे तु जातिव्यक्त्युभयपक्षयोरपि भविष्यति तदा द्विर्बद्ध सबद्धं भवति" इति न्या. येन स्वीकारेऽ दोषः । 'सप्तम्या पूर्वस्य' १७।४। १०५ । इति न्यायात् अव्यवहितस्यैव पूर्वस्य यकारादिर्भवति न तु केनापि वर्णन व्यवहितस्य । नदी एषा, मधु अत्र, वधू + आसनम्, पितुरर्थः षष्ठीसमासो वा पित्रेऽयमिति पित्रर्थ: 'तदर्थार्थेन । ३।१।७२ । लिङ्गानुशासनात् अर्थशब्द:विशेष्यस्य समासलिङो भवति, ऊर्थो वाच्यवत् इति । लिङ्गानुशासने ४०१)पित +अर्थः कृत् विक्षेपे कृ गश् हिंसायाम् वा धातोरनुकरणे कृ. आदिर्यस्य स क्रादि: लु इत्अनुबन्धो यस्य स लित, ल वदाकृतियस्य सः ल कारस्याऽऽ कृतिरिवाऽऽ कृतिर्यस्य स लाकृतिः उष्ट्रमुखादित्वाद् बहुव्रीहिः यद्वा ल कारस्याऽऽकृति: लाकृतिरिति षष्ठीसमासः । 'इवर्णादे' रित्यत्र केचित्पञ्चमी व्याख्यानयन्ति तन्मते दधियत्र, मधुवत्र, भूवादय इति भवति । अत्र किञ्चिद् विचार्यते-इवर्ण आदिर्यस्य स इवर्णादिरियत्र तद्गुणसंविज्ञानबहुव्रीहिः, न तु दृष्टसागर इति वदतद्गुणसंविज्ञानबहुव्रीहिः, अत्रादिशब्दो व्यवस्थावाची । ननु इवर्णादेरित्यत्राऽऽदिशब्देन यथा इकारादयः स्वरा गृह यन्ते तथा इन्द्रादिशब्दा अपि किं न गृह यन्ते तथा सति इन्द्रस्याऽऽगनम-इन्द्र+आगमन इत्यत्र यकारादिविधानरुपं सन्धिकार्य भविष्यतीति चेन्मैवमिद सन्धिप्रकरणम् सन्धिस्त्रिधा स्वरसन्धि: व्यञ्जनसन्धिः गोबलीवर्दन्यायात् विसर्गसन्धिश्च । 'इवर्णादे.' ।१।२।२१ । इति सूत्रं स्वरसन्धिप्रकरणस्थम्, इन्द्रादिशब्दास्तावन्न स्वरा अतोत्र इवर्णादिशब्देन इकारादयो वर्णा एव ग्राह या न तु इन्द्रादिशब्दाः । गोबलोवर्दधायश्चेत्थं गावश्चरन्ति गोमध्ये बलोवर्दोऽपि समायातस्तथापि गवान्तरापेक्षया बलीवर्दस्य विशेषताशालित्वात्वात्पृथक उपादीयते । अत्र व्यञ्जनान्ततित्वेपि विसर्गस्य विशेषताशालित्वात्सृथगुपन्यासः । इवर्णादीनां द्वसप्ततिः भेदाः
ह्रस्वोदात्त: दीर्घोदात्त: प्लुतोदात्त: प्रत्येकं सानुनासिकनिरनुनासिको एवमनुदात्तस्वरितेषु सर्वमष्टादशभेद इवर्ण: एवमुवर्णवर्णल वर्णाः सर्वं मिलित्वा द्वासप्ततिः यरलवानां सप्तभेदा:
___ यलवाः सानुनासिका निरनुनासिकाश्च रकारो निरनुनासिक एव अस्वे इत्यस्य 'तुल्यस्थानास्य०' । १ । १ १७ । इति विहितस्वसंज्ञकभिन्न