________________
(४३)
'क्रिपार्थो धातुः | ३ | ३ | ३१ इति धातुसंज्ञा । उपेत्यत्रावर्णलोपे उपित्यस्य पदत्वात् 'घुटस्तु नमः | २|१|७६ | इति पस्य बत्वं प्राप्नोति तत् 'असिद्ध बहिरङ्गमन्तरङ्ग' इति न्यायेन न भवति वा नाम्नि' इत्यस्य बह वपेक्षेण बहिरङ्गत्वात् । प्र ओषधिमिच्छति क्यनि प्रोषधी पति 'दीर्घ श्च्व ० ' | ४ | ३ | १०८ इति दीर्घः । पक्षे 'ऐदौत्सन्ध्यक्षरैः' ।१ २ ।१ । इति धस्य दत्वाशङ्का प्राग्वन्निरसनीया । प्रकर्षण अधिमिच्छतीत्यर्थः । न च स्याजीवावर्णविधा ७ ४ । १०९ । इति स्थानिवद्भावादेव पस्य बत्त्वाशङ्का निरस्ता किमसिद्ध बहिरङ्गमन्तरङ्ग इति न्यायाश्रय इति वाच्यम् 'न सन्धि: ० ' । ७ । ४ । १११ । इत्यनेन निषेधात् । ननु न ० | ७|४|११| सूत्रे सन्धिग्रहणेनैव स्थानिवद्भावनिषेधे सिद्धेऽपि द्विग्रहणमेतन्न्यायबाधनार्थत्वादत्रापि एतन्न्यायबाधो भविष्यतीति वाच्यं द्विग्रहणेन द्वित्वविषये एतन्न्यायबाधस्य चरितार्थत्वादत्रैतन्न्यायस्य बाधकरणे द्विग्रहणस्यासामर्थ्यादेतन्न्याय त्रवृत्तिः ||२०||
'इवर्णादिरस्ते स्वरे यवरलम् । १ । २ । २१ ।
इ उ ऋ लृ वर्णानामस्वे स्वरे परे यथासंख्यं य व र ल इत्येते स्युः । दध्यत्र, नद्योषा, मध्वत्र, वध्वासनं, पित्रर्थः, क्रादिः, लित्, लाकृतिः ॥ २१ ॥
इवर्ण आदिर्यस्य स इवर्णादिः, तरय इ उ ऋ लृ बहुत्वेऽपि जातिविवक्षया इवर्णादेरिति एकवचनेन निर्देश: । न स्व: अस्वः तस्मिन्, स्वरे यश्च वश्च रश्च लश्च यवरलम् । इवर्णादेरित्युक्तत्वाद- वर्णस्येति निवृत्तम् | अस्वे स्वरे इत्यसमस्ताभिधानमुत्तरसूत्रेषु केवल स्वर इत्यस्यैवानुवृत्त्यर्थमन्यथा सन्नियोगशिष्टानां सह प्रवृत्तिः स्यात् । 'अस्वस्वरे' इत्यनुवृत्त्या तु' रायैन्द्रीत्यत्र आयादेशो न स्यात् अस्वस्वरा भावात् । अस्व इति विशेषणं तु ह्रस्वोऽपदे वा । १ । २ । २२ । इत्यत्राऽऽवश्यकतयाऽत्र तु स्पष्टप्रतिपत्तयेऽभिहितं न तु दधि इदमित्यत्र यत्वप्रसङ्ग- वारणाथम्, 'समानानां तेन दीर्घः' । १ । २ । १ । इत्यनेन बाधनात् । इवर्णादेरिति सामान्यनिर्देश:, एवं यवरलमित्यपि । अत एवं यथासंख्योपपत्तिः, व्यक्त्या निर्देशे तु इवर्णादेरित्यनेन द्वासप्ततेः यवरलमित्यनेन च सप्तानामुपस्थित्या यथा
"