________________
(४२)
उपसर्गस्यानिषेधे दोति । १ । २ । १९ ।
उपसर्गावर्णस्य इणेधिवर्जे एदादावोदादौ च धातौ परे लुक् स्यात् । प्रलयति, परेलयति, प्रोषति, परोषति । अनिषेधिति किम् ? उपति,
1
प्रधते ॥ १९ ॥
उपसर्गस्य इण् च एध् च इणेध्, न इणेघ् अनिर्णध्. एच्च ओच्च एदोत्, अनिषेध चासौ एदोच्च तस्मिन् । अनिणेधित्यत्र घुटम्तृतीयः | २|१|७६ । इति दत्त्वं तु संदेह भयात्सौत्रत्वान्न कुतम् । प्र, परा, इलण् प्रेरणे 'चुरादिभ्यो णिच् । ३।४।१७। णिच्, प्र एलयति, परा एलयति, अत्र वृद्धि बाधित्वाऽ नेनावर्णलोप: प्रकर्षेण प्रेरयतीत्यर्थः । पराशब्दोऽनभिमुखादौ वर्तते । प्र, परा, उषू दाहे,तिव्, शब् । उष इंण्क्, ति । एधि वृद्धौ प्र एधते, अत्र 'ऐदोद्' सन्ध्यक्षरे' |२| १|१२| सूत्राद्व द्धि: । अत्रेदम्- 'येन विना यन्न भवति तत्तेनाक्षिप्यते ' इति न्यायादुपसर्गसञ्ज्ञा धातुसम्बन्धं विनाऽसम्भवेन धातोराक्षेपः 'अर्थवश । द्विभक्तिविपरिणाम:' इति न्यायादुक्तं धाताविति । सप्तम्या आदि: |७|४|११४। सूत्रादाह एदादावित्यादि । नन्वुपसर्गस्येति कथनाभावेऽपि पर्युदासनाश्रयणे इणेधिवजितधातोरेव ग्रहणं भविष्यतीति उपसर्गग्रहणं न कर्तव्यमथवा धातुसंबन्धे उपसर्गसञ्ज्ञायाः सिद्धत्वात् प्रादेरित्येवोच्यताम् मात्रालाघवं भविष्यतीति चेन्मैवम् प्रगता एलका यस्मात्स प्रेलको देश इत्यत्रोपसर्गपदोपादानाभावे 'येन धातुना०' इति न्यायेनेल्धातुना सम्बन्धादुपसर्गसञ्ज्ञाऽभावेप्यकारस्य लुक् स्यात् तन्निवारणार्थम् ||१९||
वा नाम्नि । १ । २ । २० ।
नामावयवे एदादावोदादौ च धातो परे उपसर्गावर्णस्य लुग्वा स्यात् । उपेकीयति, उपेकीयति, प्रोषधीयति, प्रौषधीयति ॥ २० ॥
वा, नामन् तस्मिन् । उपसर्गस्य, अवर्णस्य, एदोति लुगिति च पदचतुष्टयमनुवर्तते । 'नाम्नि' इत्यस्य सामानाधिकरण्यासंभवादवयवद्वारेणाह नाम इति । उप एक-मिच्छति 'अमाव्यया ० ' | ३ | ४ | ३ ३ | 'क्यनि' | ४ | ३ | ११२ । .