________________
. (४१)
इति । स्थूलश्चासो ओतुश्च पृथुलबिडाल इत्यर्थः । हे पुत्रेति-पुत्रादयः ।४५५ उणादिसूत्रान्निपातने पुत्रः । केचित्त
पुन्नाम्नो नरकाद् यस्मात्, पितरं त्रायते सुतः ।। । तस्मात् पुत्र इति प्रोक्तः, स्वयमेव स्वयम्भुवः ।।(मनु०अ०९-१३८) ।
इति व्युत्पत्तौ तु पुत् पूर्वात् वेड् पालने धातो: 'स्थापास्नात्रः कः' १५।१।१४२। सूत्रात् के पुत्रः इत्याहुः रत्रास्माकमरुचिः, अरुचिकारणं मृग्यम् । व्युत्पत्तिस्तु शब्दानामनेकधा भवति । पश्येति दृशप्रेक्षणेधातोः पञ्चमी हिः 'धौतिकृवु०' ।४।२।१०८। अत: प्रत्ययात० ।४।२।८। शूत्रात् हेर्लक् ।।१७।।
ओमाडि । १।२।१८। अवर्णस्य ओमि आडादेशे च परे लुक स्यात् । अद्योम्, भोम्, आ ऊढा ओढा, अद्योढा, सोढा ॥१८॥
. ओम् च आङ् च तस्मिन् । अद्य+ओम् लिखित उच्चारित वेति कियाध्याहारेण अस्मिन् दिने ओम् शब्दो लिखित उच्चारित वेत्यर्थः । सा+ओम् सा प्रस्तुता स्त्री ओमिति स्वीकरोमीत्येवं कञ्चित्प्रति कथ्यते । अकार।ऽऽकारयोरूदाहरणद्वयम् । आ ऊढा इति प्रथम प्रसाध्य ओढेति 'गतिक्वन्य०' ३३११४२॥ इति समासः ततः अद्य ओढा, सा ओढा, इत्याङादेशस्योदाहरणद्वयम् आङ आभिमूख्यार्थे अर्हणाधर्थे वा ऊढा परिणीता। अस्मिन्दिने आभिमुख्येन सत्कारेण बा परिणीता नारीति वाक्यार्थः । एवं सा परिणीता नारीत्यर्थः ।
नन्वाङि परे 'समानानां.' ॥१॥२॥१॥ इति दीर्घत्वे सिद्ध लुग्विधान. मनर्थ कमिति नाशङ्कनीयं लक्ष्यानुरोधाद् आङादेशो गृह्यते । अयंभावः-धातूपसर्गयो: कार्यमन्तरङ्गमिति न्यायात् पूर्व धातोरूपसर्गेण योजनात् अद्य+ ओढा इति स्थितौ सत्याम् ऐदोत्।१।२।१२। इत्योत्वापत्तिदुरुद्धरा तन्निवा. रणार्थ लुग्विधानम् । 'उभयस्थान०' इति न्यायात् उभयस्थाननिष्पन्नेऽपि अङादेशेन व्यपदेशः । ङ कारोपादानाभावेपि 'वादिः स्वरोऽनाइ' ।२।३६ इति सन्धिप्रतिषेधात पारिशेष्यात आङ एव ग्रहणं भविष्यति, वर्णवाचक आकारस्तु 'साहचर्यात्सदृशस्यैव ग्रहणमिति न्यायादेव निवृत्तस्तथा सति 'ओमाति' इति निर्देशो निदुष्टस्तथापि सुखावबोधाय ङ कारसहितो निर्देश: ॥१८॥