________________
(४०)
तिष्ठ, अद्य व गच्छ । नियोगे तु, इहव तिष्ठ मा गाः ॥ १६ ॥ .
नि, यूज पी योगः, नियोजनं नियोगः; घन नियोगः निश्चयोऽ. धारणमिति पर्यायः न नियोगोऽनियोगस्तस्मिन् अनिश्चय इत्यर्थः लुग्. एवे सप्तमी । एवेत्य-स्वाव्ययत्वेऽपि अनुकरणेनानुकार्येणार्थेन भेदविवक्षया च नामत्वात् स्यादिः । इहेव तिष्ठेति । ष्ठां गतिनिवृत्तौ, पञ्चमी हि, इहैव तिष्ठ, अन्यत्र वा गच्छ कामचार: स्वेच्छावृत्तिः, यथेच्छम् कुरु इत्यनवधारणमत्र प्रतीयते । इहैव तिष्ठेत्युतौ त्वन्यत्र मा गाः इत्यवस्थानस्य निर्धारणं प्रतीयते । अत्रैतद्देशस्थितिप्रकारकं युष्मदर्थमिशेष्यकमवधारणं प्रतीयते । अस्मिन्नहनि अद्य एव। गम्, पञ्चमी हि, मा पूर्वम् इणक् गतो 'माङद्यतनौ' ।५।४।३९। 'इणिकोई।४।४।२३। 'पिबति ।४।४।६६। अद्य वाऽपरेधुर्वा गच्छ · नात्र मामकं किमपि नियन्त्रणमिति वक्तुरभिप्रायप्रतीतिः ।।१६।।...
वौष्ठगतौ समासे । १।२।१७।।
ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । निम्बोष्ठी, बिम्बौष्ठी, स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥
... वा, ओष्ठश्च ओतुश्च ओष्ठौतुः तस्मिन् समासे 'चार्थे द्वन्द्वः०' ॥३।१।११७। इत्यनेन न्यग्भूतावयवभेदविवक्षण समाहार द्वन्द्वः पुस्त्वं तु सौत्रत्वात् नपुंसककत्वे तु 'ओष्ठौतुनि' स्यात् । लुगिति वर्तते, एवमग्रेऽपि । एकवचनादेकस्मिन्नेव समासे, न ससासान्तरे अत एव वृषलौष्ठवण: इत्यादौ नाकारलोपः अत्र ओष्ठव्रणशब्देन सहकायें सत्यपि ओष्ठशब्देन सहैकार्थ्याभावात् । नचात्र सूत्रे 'ओष्ठौतौ' इत्युत्र कथं नावर्णस्य लुगिति वाच्य मस्य लुको वैकल्पिकतया औत्वेकृते 'ओष्ठौतु' इति भवतीति । दन्त्योष्ठ्य इत्यत्र तु काकवद्देवदत्तस्य गृमिति प्राक्स्थितोष्ठघटकत्वमादायाथवा 'एकदेशविकृतमनन्यवदिति न्या यात्। बिम्ब्या: फलं बिम्बम् बिम्बमिव रक्तौ ओष्ठौ यस्याः सा बिम्बोष्ठी उष्ट्रमुखादित्वात् समासः । बिम्बी लताविशेष: 'हेमादिभ्योऽञ् ।६।।४।।