________________
(३९)
म्वच्छन्दचारिणी स्त्री पुश्चलीत्यर्थः । अक्षाणामिन्द्रियाणां रथानां वा ऊहः समूहो रचनाऽस्त्यस्यां सा अक्षौहिणी 'अतोऽनेकस्वरात् ।७।२।६। इतीन, स्त्रियां हो, परिमाणविशेषविशिष्टा सेनेत्यर्थः, 'पूर्वपदस्या० २।३६४॥ इति ण: । ऊहशब्दात्पूर्वमिन्प्रत्ययः पश्चादक्षशब्देन समासः, अक्षशब्दस्य ऊहशब्देन समास कृत्वा इन्प्रत्यये अक्षोहिणीत्येव सिध्यति, न त्वौत् । अक्षौहिणीसेनायां गजा:, २१८७० रथा: २१८७० रथाश्वजिता अश्वाः ६५६१० पत्तयः १०९३५० सर्वे २१८७०० भवन्ति यदाहु:
स्यात्सेनाक्षौहिणी नाम खाऽगाष्टकद्विकर्गः । . रथैश्चभ्यो हयैस्त्रिध्न: पञ्चध्नैश्च पदातिभिः ।
केचित्तु स्वरस्वैर्यक्षौहिण्यामित्यत्र तदभिन्नाभिन्न तदभिन्नमिति न्यायेन कर्मधारयसमासं कुर्वन्ति तेषामभिप्रायस्त्वित्थं 'सममात्रौषधनिष्पन्नश्चूर्णो यथा सम इति व्यपदिश्यते तथावदत्रापि स्वैरावयवत्वात् स्वैरस्वैर्यक्षौहिण्यात्मकसमुदायोपि स्वरः एवं स्वैर्यवयवत्वात् अक्षौहिण्यवयवत्वाच्च, व्यपदेशे सति स्वैराभिन्न एतत्समुदाय:, एतत्समुदायाभिन्नः स्वैरिशब्दः, अतः तदभिन्नाभिन्नं तदभिन्न मिति न्यायेन स्व राभिन्नः स्वैरिशब्दः एवं स्वर्यभिन्न अक्षौहिणीशब्दः । एतत्समासे प्रमाणं तु
ईषदर्थे क्रियायोगे, मर्यादाभिविधौ चयः
एतमातं हितं विद्याद् वाक्यस्मरणयोरङित् ।।
इत्यत्र मर्यादाभिविधौ इति निर्देशः तदभिन्नाभिन्नं तदभिन्नमिति भ्यायेन । मर्यादाभिविधावित्यत्र मर्यादावयवत्वात् समुदाये मर्यादात्वम्, अभिविध्यवयवत्वादभिविधित्वम् इति युक्त्या कर्मधारयः । मर्यादायाम! - भिविधौ चार्थे य: 'आ' एतं हितं विद्यात् इत्यर्थः इतरेतरद्वन्द्वकरणे द्विवचनस्य समाहारद्वन्द्वकरणे तु नपुंसकत्वापत्तेः । अन्ये तु मर्यादासहितोऽभिविधिरिति मध्यमपदलोपिसमासमिच्छन्ति तन्मतेऽत्रापि स्वरसहितः स्वैरी स्वैरीस्वरी तत्सहिता अक्षौहिणीति मध्यमपदलोपिसमासः ।।१५।।
अनियोगे लगेवे । १।२।१६ । अनियोगोऽनवधारणं तद्विषये एवे परेऽवर्णस्य लुक् स्यात् । इहेब