________________
(३८)
प्रवृद्धो वा । प्रवहणं प्रौढि: 'स्त्रियां क्तिः' ।।३।९१॥ उत्साह इत्यर्थः । ऊहि वितर्के, पोहणं प्रौहः. पत्र, प्रकृष्ट: तर्क इत्यर्थः । ऊहे नेच्छन्त्येके तन्मते प्रोहः । अत्र एष-एष्य-ऊढादय: 'अर्थवद्ग्रहणे नानर्थकस्य' इति न्यायात् सार्थका ग्राह्या:, तेन प्रेषते प्रेष्यते प्रोढवानित्यादयो न गृह्यन्ते । ऊढिरपि ऊढसाहचर्यात्स्याद्यन्त एव ग्राह्यः न तु ण्यन्तस्तेन प्रोढयतीत्यत्र न औत् । 'येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवती' ति न्यायेन 'उपसर्गस्यानिणेधेदोति' ।।२।१९। इत्यस्य बाध:, न तु 'ओमाङि।१।२।१८। इत्यस्य तेन आ+इष्य: एध्य, प्र+एष्य: प्रेष्यः इत्यत्राङादेशत्वे ऐदादेशो न भवति ।
एतेषाम् उभयस्थाननिष्पन्नेन 'उभयस्थाननिष्पन्नोऽन्यतरव्यपदेश भाक इति न्यायेन यदाऽऽङादेशत्वम्, तदा 'ओमाडि' १२।१८। इत्यलुकि प्रेष्य इति भवति यदा धात्वादेशत्वं तदा 'उपसर्गस्या०' ।२।१९। इति बाधित्वा विशेषविहितत्वादनेन सूत्रेण ऐत्वे कृते प्रेष्य इति भवति । नन्वेषादिषु परेषु 'उपसर्गस्या०' ।१।२।१९। सूत्रप्रवृत्तर्न सम्भवति तेषां धातुत्वाभावादितिघेन्मेवं 'क्विबन्ता: धातुत्वं नोज्झन्ती' ति न्यायात क्विन्तवद् घञ्-ध्यणन्तानामपि धातुत्वात् ॥१४॥
स्वैरस्वैर्यक्षौहिण्याम् । १।२।१५। स्वरादिष्ववर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्बरः, स्वरी, अक्षौहिणी सेना ॥ १५॥ .
__ स्वरश्च स्वैरी च अक्षौहिणी तस्याम् । इतरेतरयोगः, सौत्रत्वादेकवचनम् अथवा समाहारे सौत्रत्वात् नपुसकत्वाभावः 'स्व' आत्मा-रमीयशातिधनार्थकः, ईरिक गतिकम्पनयो: 'भावाकों: ।।३।१८। सूत्रात् पञ् यद्वा ईरण क्षेपे धातोः धनि ईरः, स्वस्य ईर: स्वर: । स्वयमीरति ईतषा स्वरः 'नाम्युपान्त्यः' ।।१।५४। सूत्रात्कप्रत्ययः । स्वयमीरितुं शीलमस्येति स्वरी स्वच्छन्दचारीत्यर्थ: 'अजातेः शोले' ।।११५४। स्वरशब्दान्मत्वर्थीयेनैव इना सिद्ध स्वैरिन्ग्रहणं ताच्छीलिकेऽ पि स्वैरिन्शब्दे ऐत्वार्थम् । स्वरीति नामग्रहणात् 'नाम ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्यायेन नाममात्र. निर्देश स्त्रीत्वादिलिङ्गविशिष्टमपि नाम ग्राह्यमित्यर्थकेन स्वैरिणीत्यपि ।