________________
(३७)
ङयां लुक्' | २|४| ६ | सूत्रादलोषः । तव + ओदनः, भक्तम् । उप समीपे गावो यस्य स उपगुः, 'गोश्चान्ते० ' |२| ४ | ९६ | सूत्रा ब:, 'ङसोऽपत्ये' |६|१|२८| इणि वृद्धि:, 'अस्वयम्भुवोऽव्' | ७|४|७० ।। १२ ।।
ऊटा । १।२ । १३ ।
अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः, धौतवान् ॥ १३ ॥
|| ऊटा तृतीया ॥ एदोतोरित्यनुवृत्तावपि 'आसन्नः | ७|४|१२० सूत्रकार एव भवत्यत आह औरिति । 'अवणस्ये० | १ | २|६| इति गुणापवादोऽयम् । धावृग् गतिशुद्धयोः, धाव्यते स्म धौत: शोधित इत्यर्थः । |५|१|२१| 'तत्साप्या० |३|३|२१| धावति स्म धौतवान् 'क्तक्तवतू' |५|१|१७४| 'कर्तरि' | ५|१|३| इति सूत्रात् कर्तरि क्तवतु 'अनुनासिके ० | ४|१|१०८ | 'अभ्वादेरत्वसः । १।४।९० । सूत्रात् दीर्घः, ऋदुदितः | १|४/७० | सूत्रात् नागमः 'दीर्घङ ्याब्० ।१।४।४५। सूत्रात्सिलोपः 'पदस्य' । २।१।८९। सूत्रात्तलोपः ||१३||
प्रस्येषैष्योढोढ्यूहे . स्वरेण । १।२।१४ । प्रावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् । प्रेषः, प्रष्यः, प्रौढ, प्रौढिः, प्रोहः ॥ १४ ॥
॥ प्रस्य षष्ठी ॥ एषश्च एष्यश्च ऊढश्च ऊढिश्च ऊहश्चेति समाहार द्वन्द्व : तरिमन् स्वरेण । प्रस्येत्यत्रावयवावयविभावसम्बन्धे षष्ठी, प्रावर्णस्येति प्रशब्दावयवस्यावर्णस्येत्यर्थः । औपश्लेषिकाधिकरणे सप्तमी अत आहएषादिषु परेष्विति ऐदीदित्यनुवर्तते । प्र इषत् इच्छायाम् एषणमेष:, प्र एषः, प्रेषः, प्रेषणं प्रेषः 'भावाकर्त्रीः | ५|२|१८ | घञ् 'घञोरुपान्त्यस्य' |४|३|४| सूत्रादुपान्त्यगुणः सत्कारपूर्विका प्रेरणेत्यर्थः । एष्यते इति एष्यः ॠवर्ण ०' |५|१| १७| सूत्राद्यण् प्रकर्षेण नियोक्तुं शक्य इत्यर्थः । प्र वहति स्म प्रौढः, क्तः 'यजादिवचेः किति | ४|१|७९ । 'हो घुट्पदान्ते' | २११८२॥ अधश्चतुर्थात्त० |२|१|७९। तकारस्य धकार: । ' तवर्गस्य० | १|३|६०| सूत्रात् ढकारः, 'ढस्तङ्के' । १।३।४३। पूर्वढकारलोपः दीर्घश्च प्रकर्षेण ऊढ: प्रौढ, प्रतिभान्वितः,