________________
(३६)
लृत्याल वा । १।२।११।
उपसर्गस्यावर्णस्य लुकारादौ नामावयवे धातो परे कृता सह आल वा स्यात् । उपाल्कारयति, उपत्कारीयति ॥ ११ ॥
लृ ति सप्तमी, आलू वा । उपसर्गस्य नाम्नि इति पदद्वयमनुवर्तते । लृकार मिच्छति लृकारीयति, उप ऌकारीयति उपात्कारीयति । पक्षेल केषाञ्चिन्मते ह्रस्वश्च । अलोऽपवादोऽयम् । 'दूरादा० १७|४| ९९ | सूत्रात् ज्ञापितात् 'ऋकारापदिष्टं कार्यं लृकारस्यापि ' इति न्यायात्पूर्वसूत्रेणैव सिद्धऽप्य। देशबाधनार्थम् ।
ऐदौत्सन्ध्यक्षरैः । १ । २ । १२ ।
अवर्णस्य सन्ध्यक्षरः परः सह ऐ औ इत्येतौ स्थाताम् । तवेषा, खट्वेषा, तवेन्द्री, सैन्द्री, तवौदनः, तवौपगवः ॥ १२ ॥
ऐच्च औच्च ऐदौत् सन्धिना कृतान्यक्षराणि सन्ध्यक्षराणि तैः सन्ध्यक्षरैः । अ इ इत्यनयोर्मेलनेन ए ऐ इतीमा अ इ इत्यनयोर्मेलनेन ओ ओ saint निष्पद्यन्ते । ऐ इत्यस्य अ इ वर्णाभ्यां निष्पत्तावपि अर्धमात्रेणावर्णेन अध्यर्धमात्रेण इवर्णेन च निष्पत्तिस्वीकार: औ इत्यस्य च अध्यर्धमात्रेणावर्णेनाध्यर्द्ध मात्रणावर्णेन विलक्षणीभूतेन निष्पत्तिस्वीकारः अन्यथा समानावयवमिष्पन्नत्वेन 'ए ऐ' अत्र ओ ओ अत्र च वैलक्षण्यं न स्यात् अथवा सन्धेरक्षराणि सन्ध्यक्षराणि सम्पाद्यसम्पादकभावसम्बन्धे षष्ठी । तव एषा‘ॠत्यारुपसर्गस्य' ।१|२|९| सूत्रेण उपसर्गस्येति नानुवर्तते 'अपेक्षातोऽधिकार इति न्यायात् सन्ध्यक्षरैरित्येत्वनिर्देशाच्च । गुणापवादोऽयम् । अत्रावर्णस्य सन्ध्यक्षरैः परैः सह 'आसन्न' | ७|४|१२० | इति परिभाषयाऽऽसन्नविधिरेव कर्तव्या । आसन्नत्वं सादृश्यं च स्थानकृतं ए ऐ इत्यनयो: तालुस्थानजन्यस्वम्, ओ ओ इत्यनयोश्च स्थानजन्यत्वम् । नात्र यथासङ्ख्यपरिभाषया निर्वाह: स्थानिभूतसन्ध्यक्षराणां चतुःसंख्याकत्वात् आदेशद्वित्वेन समत्वाभावात् । खट्वा एषा = खट्वैषा । इन्द्रो देवताऽस्याः सा ऐन्द्री 'देवता' | ६ २ १०२ । इत्यण् 'वृद्धिः स्वरेष्वादे० ' | ७|४|१| 'अणञेये ० | २|४| २० | अस्य