________________
(३५)
८
दिवा न भुङ्को अत्र पीनत्वं भोजनं विनाऽनुपपन्नं दिवाभोजनबाधाच्च रात्रिभोजनमाक्षिप्यते तथाऽत्रापि क्रियायोग एवं सर्गत्वादुपसर्गग्रहणबलेन धातोराक्षेपाद् सप्तम्या ' ० | ७|४|११४ इति परिभाषाबलाच्चाह ऋकारादी भ्राताविति । प्र ऋच्छति ऋद्ध गो अग्र गच्छतीत्यर्थः परोपसर्गस्त्वनभिमुख्यार्थद्योतकः पराच्छति अनभि रूयं गच्छतीत्यर्थः । येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपमर्ग सञ्ज्ञा' तेन प्रगता ऋच्छका यस्मात्स प्रच्छेको देश इत्यत्रारादेशो न भवति अत्र गत इत्यनेन प्रस्य सम्बन्धः न तु ऋच्छधातुना । अस्यार्थस्य ज्ञापकस्तु एतादृशो निर्देश एव । अन्यथा उपसर्गस्येति त्यक्त्वा ॠत्यार्, प्रादेरित्येव सूत्यताम् । आरिति वर्तमाने पुनराग्र हणमारेव स्यादित्येवमर्थम् तेनोहेत्तरत्र च सूत्रयोर्हस्वो बाध्यते । सर्वापवादोयम् । ननु प्राच्छतीत्यादाव कार्र कारोभयस्थान निष्पन्नत्वात् 'उभयस्थान निष्पन्नोऽन्यतरव्यपदेशभाक्' इति न्यायात् अकारादेशभजनेकारस्य पदान्तत्वादारादेशस्यापि पदान्तत्वात् नद्घटकस्य रस्य 'र: पदान्ते ० | १|३|५३ | इति विसर्गः प्राप्नोतीति चेत्सत्यम 'असिद्ध बहिरङ्गमन्तरङ्ग' इति न्यायेनावर्णान्तोपसर्गं कीरादिभ्रात्वादि बहुनिमित्तकत्वेन बहिरङ्ग कार्यमिति अल्पनिमित्तत्वादन्तरङ्ग विसर्गे कर्तव्येऽसिद्धत्वाद्विसर्गो न भवति ॥९॥
नाम्नि वा । १२ । १० ।
उपसर्गस्यस्यावर्णस्य ऋॠकारादौ नामावयवे धातौ परे ऋता सह आर् वा स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥ १० ॥
नाम्नि वा - पूर्वसूत्रं सम्बध्यते । ऋकारादिधातोर्नाम्ना सह समानाधिकरण्येन विशेषणसम्भवादवयवद्वारेणाह ऋकारादी नामक्यवे धातो परे इति । ऋषभमिच्छति ऋषभीयति 'अमाव्ययात्' | ३|४| २३ | क्यनि | ४ | ३ | ११२ ॥ इति । प्र + ऋषभीयति, अनेनाऽऽर्, पक्षे 'अवर्णस्ये० ' | १|२|६| इति अर् | ह्रस्वमपि केचिदिन्छन्ति तन्मते प्र ऋषभोयति । नन्वत्र पूर्वसूत्रे आदित्यनुवर्तमानेऽप आर्ग्रहणेन ह्रस्वबाधा, परन्त्वत्र हस्वकरणे का बाघेति चेत्'नहि गोधा सर्पन्ती सर्पणादहिर्भवति' इति पूर्वसूत्रादेवानुवृत्त आरादेश आत्मीयं बाधसामर्थ्यं कुत्र न्यस्य ह्रस्वत्वं न बाघेत अर्थादवश्यमेव बाधेतेत्यर्थः ॥ १० ॥