________________
(३४)
‘षष्ठ्याऽन्त्यस्य' ।७।४।१०६ । इति सेत्स्व नीति चैन्मंत्रम् 'अनेकवर्णः सर्वस्य '' |७|४|१०७ । इति सर्वादेशबाघनार्थत्वात् । अत्रेदं विचर्यते ऋणशब्दाव्यव हित पूर्वत्वविशिष्टप्रादीनामवर्णत्वं प्रकृतसूत्रस्योद्देश्यतावच्छेदकमिवर्णाद्यव्यवहितपूर्व स्वविशिष्टा वर्णत्वरुपोद्देश्यतावच्छेदकस्य व्याप्यम् । इवर्णाद्यव्यवहित
पूर्वत्व विशिष्टावर्णत्व 'अवर्णस्य ० ' | १२|६| इति सूत्रीय दृश्यतावच्छेदकम् 'ऋ' ० | १ | २|७| सूत्रस्य ऋणशब्दाव्यवहितपूर्वत्वविशिष्टादीनामवर्णत्वरूपोद्देश्यतावच्छेदकस्य व्यापकम् अतः व्याप्योद्देश्यतावच्छेदकशास्त्रेण व्याप कोद्देश्यतावच्छेदकस्य 'अवर्णस्य ' ० | १२|६| इत्यस्य वाधोजायतेऽतः प्रार्णमित्यादिषु आरेव भवति ॥ ७॥
-
ऋते तृतीयासमासे । १।२।८।
अवर्णस्य ऋते परे तृतीयासमासे ऋता. सह आर् स्यात् । शीतार्तः । तृतीयासमास इति किम् ? परमर्तः । समास इति किम् ? दुःखेनर्तः ॥ ८ ॥
समसनं समासः तृतीयया समास:,. तस्मिन । धाराप्रवाहन्यायेनावर्णस्येत्यनुवर्तते आरिति चानुवर्तते । अनुवर्तनं नाम पूर्वतः परस्रिन् सम्बन्धः । शीतेन ऋतः शीतार्तः शीतेन व्याप्तः पुरुषादिरित्यर्थः । शीत ऋत इति ह्रस्वोऽपि । परमश्चासौ ऋतश्च परमर्तः अत्र तृतीयासमासाभावादवर्णस्येत्यनेनारेव भवति । दुःखेनर्त इत्यत्र तु समास एव न, अतो नार् किन्तु अरेव । अत एवायमपवादः ॥ ८॥
ऋत्यारुपसर्गस्य । १ ।२।९।
उपसगंस्थस्यावर्णस्य ऋकारादो धातो परे ऋता सह आर् स्यात् । प्राच्छंति, पराच्छंति ॥ ९ ॥
ऋति सप्तमी आर् उपसृजति धात्वर्थविशेषम् उपसर्जनमिति वोपसर्गस्तस्य । अवर्णस्येत्यनुवर्तते, एवमग्रेऽपि । यथा पीनोऽयं देवदत्तः