________________
अश्चासौ वर्णश्वावर्णः अत्र कर्मधारयः कर्मधारयेन विशेष्ये संकोचो जायते यथा नीलोत्पलमान येन्यत्र नीलत्वेन संकोच्यमानः उत्पलोऽर्थः नीलकमल-मात्रे एव तिष्ठति न तूत्पलत्वेन पीतशुक्लाद्य त्वलेष्वपि, तथावदत्रापि वर्णत्वेन वर्णोऽर्थः इवर्णादिषु वर्तमानेपि अत्वेन संकोच्यमानः वर्णोऽर्थः अत्त्वावच्छिन्न एव तिष्ठति न त्वत्वावच्छिन्नभिन्ने । ननु जलाहरणसाधनो घट, इत्यादिषु घटप देन घटत्वाबाच्छिन्नस्य यथा बोधो भवति तथावदत्रापि वर्णपदानुपादानेपि अष्टादशाकाराणां ग्रहणे सिद्ध सति वर्ण ग्रहणमनर्थकमिति चेन्न वर्णग्रहणं व्यर्थ सज्ञापयति यद् वर्णग्रहणाभावस्थलेष्टादशप्रकाराणां ग्रहणं न कर्त्तव्यम् परन्तु केवलमकारादौनामेव ग्रहणं कर्तव्यम् ॥६॥
ऋणे प्रदशावसनकम्बलक्त्सरवत्सतरस्यार ।१।२। । प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । प्राणम्, दशार्णम्, ऋणार्णम्, वसनार्ण, कम्बलार्ण, वत्सरार्णम्, वत्सतरार्णम् ॥७॥
. प्रश्च दश च 'प्रकृतिवदनुकरणम्'. एत न्यायस्यानित्यत्वाश्रयणे दशाच 'दशशब्दम्यानुकरमे दशश्च ऋणञ्च वसनञ्च कम्बलव वत्सरश्च वत्सतरश्चेति समाहारद्वन्द्वस्तस्याषयधावयविभावसम्बन्धे षष्ठी आर् । प्रकृष्टम् ऋगम्, प्रगतमृणं वा प्रार्णम् 'प्रात्यव०।३।११४७. सूत्रात्समासः, ऋणं देयमित्यथः', दशानामृणम् दशार्णम् । ऋणस्यावयवतया तस्सम्बन्धि ऋणम् ऋणार्णम् । केचित्तु 'अपनयनाय इत्याध्याहार्य ऋणस्यापनयनाय यदन्यदृणं क्रियते तहणार्णमिति वदन्ति । वस्यतेऽनेनेति करणेऽनटि वसनम् वस्त्रमित्यर्थः । वसनस्य कम्बलस्य वत्स रस्य वत्सतरस्य वा ऋणम् । कम्बल: ऊर्णापट:, वत्सर: संवत्सर इत्यर्थः । वत्सतर दम्य इति पर्याय: । समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनेहोत्तरत्र पूर्वत्र च हस्वोपि भवति । तेण प्र ऋणम्, दश ऋणम्, इत्याद्यपि । पक्षे अर् प्राप्तावनेनाऽऽर् । अर एवायं बाधकः 'येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधक इति न्या. यात् ।
पूर्वसूत्रादवर्णम्येत्यनुवृत्तम् नन्वत्र 'अवर्णस्य' इत्यनुवृत्ति विनापि