________________
अवर्णस्येवर्णा दिनैदोदरल् । १।२।६। अवर्णस्य इउल वर्णैः सह यथासंख्यम् एत् ओत् अर् अल इत्येते स्युः । देवेन्द्रः, तवेहा, मालेयम्, सेक्षते, तवोदकम्, तवोढा, तषिः, तवर्कारः, महषिः, सर्कारः, तवल्कारः, सल्कारेण ॥६॥
___ अश्चासी वर्णश्चा वर्णस्तस्य, इवर्ण आदि-र्यस्य स इवर्णादि: तेन, एच्च ओच्च अर् च अल च एदोदरल 'सर्वोऽपि द्वन्द्वो विभाषया एकवद्भवति' । 'सम्बन्धविशेषेऽनिर्धारिता षष्ठी स्थानेयोगा भवति' इत्यनेनेवर्णादिना सहितस्यावर्णस्य स्थाने एकारादयो भवन्तीति सूत्रार्थः । 'यथासंङ्खयमनुदेश: समानाम्' इति न्यायात् समसम्बन्धी विधिः यथासङ्घयमिति । दीवूच् क्रीडादौ दीव्यन्ति क्रीडन्तीति देवा:, इदु परमेश्वर्ये इ.दतीति इन्द्रः देवानामिन्द्रः देवेन्द्रः ।, अत्र 'वर्णग्रहणे जातिग्रहणम्' इति न्यायेनावणेवर्णादिपदेन अत्वेत्वादिजात्यवच्छिन्नानां यथायोगमष्टादशभेदानां ग्रहणमित्याशयेनोदाहृतं तवेहा. मालेयमित्यादि । युष्मच्छन्दस्य 'तव मम ङसा' ।२।१।१५। इति तवादेशः, ईहि चेष्टायाम- ईहनमीहा क्तेटो गुरोर्व्यजनाद ५।३।१०६। इत्य:, आप च । मांक माने मान्ति पुष्पाण्यस्यामिति शा-मा-श्या०' उणा० ४६२ इति ले माला यद्वा मल्लि धारणे मल्ल्यते धार्यते इति कर्मणि त्रि माला। इदमिति प्रत्यक्षनिर्देशे। सा, ईक्षि दर्शने वर्तमानाते । तव उदकम् । तव, वहीं प्रापणे उह्यते परिणीयते स्म इति ऊढा कलत्रम , अत्र 'तत्साप्या०' ।३।३।२१॥ सूत्रात्कर्मणि 'क्तक्तवतू' ।५।१।१७४१ सूत्रात् क्ते 'यजा-दि०' ।४।१७९। सूत्राद् य्वृति 'हो धुट' ।२।१२८२। सूत्रात् ढकारे 'अधश्चतुर्थातथोर्धः' ।२।१।७९। सूत्रात् प्रत्ययस्य धत्वे 'तवर्गस्य० ॥१॥३॥६०। सूत्रात् ढकारे 'ढस्तड्डे ।१।३।४२। सूत्रात्पूर्वढकारलोपे दीर्घत्वे च 'आत्' ।२।४।१८। सूत्रादाप । तव+ऋषिः, ऋषत् गतौ 'गत्यर्था ज्ञानार्थाः इति न्यायात् ऋषति जानाति तत्त्वमिति ऋषिः । ह्रस्वविकल्पपक्षेऽनेनार्। तव+ऋकारः । महत् पूजायाम् 'द्रु हि-वृहि-महि उणा० ८८४ इति किदतृप्रत्यये 'ऋदुदितः ।१।४।७०। सूत्रात् नागमे 'पदस्थ ।।११।८९। सूत्रात्संयोगान्तलुकि 'नि दीर्घः' ।१।४।८५। सूत्रात् दीर्वं च महां चासौ ऋषिश्च महर्षिः 'सन्महत्० ॥३।१।१०९। सूत्रा.
कर्मधारयः । सा+ऋकारः । 'हीदहस्वरस्यानु नवः ।१।६।३१। इति ककार: द्विर्वा भवति । तव+लकारः । सा प्रस्तुता वर्णयङिक्त लकारेण सहितेत्यर्थः।