________________
( ६१ )
शायिका । कर्तरीति किम् । इक्षुभक्षिका ॥२॥ 'शयितु पर्यायः क्रम इति वाक्ये ‘पर्यायाहणो०' ।५।३।१२०। इति स्त्रियां भावे णके शाचि-का त-वेत्यत्र 'कर्तरि' ।२।२।८६। इति षष्ठी। इक्षुभ-क्षिकेति-भक्षण अदने' इत्यतः भावे स्त्रियां ‘पर्याया०' ।५।३।१२०। इति णकः कर्मणि षष्ठी 'कृति' ।३।१।७७। इति समासः ॥२॥
कर्मजा तुचा च ।३।१।८३॥ कर्म-णि या षष्ठी तदन्तं कर्तृ-विहिताकान्तेन तृजन्तेन च न समासः स्यात् । भक्तस्य भोजकः । अपां स्रष्टा । कर्म जेति किम् । गुणों गुणिविशेषकः, सम्बन्धे ऽत्र षष्ठी । कर्तरीत्येव । पयः-पायिका
॥८३॥ . कर्तरीत्यनुवर्तते तच्चाकस्य विशेषणम् । भोजक इत्यादि-णकतृचौ' ।५।१।४८। इति णकतृचौ । गुणो गुणिविशेषकः, गुणिन: संबन्धी विशेषक इत्यर्थः । शेषषठया समासः । पयः-पायिकेति पां पाने इत्यतः भावे स्त्रियां 'पर्यायाहः' ।५।३।१२०। इति णक: 'आतः ऐ०' ।४।३।५३। इत्याकारस्य ऐकारः यादेशश्च । पयः कर्म-कर्मणि षष्ठी कृति' ।३।११७७। इति समासः ॥३॥
तृतीयायाम् ।३।१८४॥ कर्तरि तृतीयायां सत्यां कम जा षष्ठी न समस्यते । आश्चर्यो गवां दोहोऽगोपालेन । तृतीयायामिति किम् । शब्दानुशासनं गुरोः ॥८४॥ अगोपालकेनेत्यत्र 'विहेतोरस्त्र्यणकस्य वा' ।२।२।८७। इति षष्ठीनिवृत्ती 'हेतु-कर्तृ०' ।२।२।४४। इति तृतीया। अशिक्षितेन दोग्ध्रा दुर्दोहा गावो यदि