________________
( ८६ )
यत् काकैरपि शक्यं पातुमिति यद्वा काकेनैव पेया मलिननिकृष्टजलसत्त्वादिति । अत्र कर्तृ तृतीयायाः कृत्येन समासः । अयं च विशेषो वाक्येन न गम्यत इति नित्यसमासो वेदितव्यः यथा खट्वारूढ इति क्षेपो वाक्येन न गम्यत इति नित्यसमासः । बाष्पच्छेद्यानितृणानीति-मृदूनीत्यर्थः बाष्प श्छिद्यन्ते छेत्तु शक्यन्ते इति घ्यण् । अत्र मृदुतातिशयेन स्तुतिः । दुर्बलत्वेन निन्दा वाऽत्र । विद्ययोषितः इति-हेतावत्र तृतीया, अयं भाव: विद्याया अन्नं प्रति न कारकत्वमपि तु हेतुत्वं प्रयोजकत्वम्, प्रयोजक च न क्रियाजनकमपि तु कर्तृ-प्र-रकत्वात् परम्परया क्रियासम्बद्धमिति साक्षात्क्रियाजनकत्वरूपकारकत्वाभावादिह समासो न भवतीति कारकग्रहणाभावेतु स्यादेव समासः ॥६॥
न विंशत्यादिनकोऽच्चान्तः ।३।१।६६। एकशब्दस्तृतीयान्तो न विंशत्यादिना समासस्तत्पुरुषः स्यात् । एकस्यचादन्तः । एकान्नविंशतिः । एकानविंशतिः । एकान्नत्रिंशत् । एकानत्रिंशत् ॥६६॥ एकेन न विंशतिः एकान्नविंशतिः पक्षे एकानविंशतिः ।, एवं एकेन न त्रिंशदिति न विकल्पेन समासः। रूपद्वये एकान्नत्रिंशद्एकाद् न निशदिति । अन एकशब्दस्य 'अद्' इत्यन्तागमः ‘अद्' इति विधानसामर्थ्यात् पूर्वाकाकारस्य 'लुगस्या०' ।२।१।११३॥ इति लुग् न भवति अन्यथा 'द्' इत्येव कुर्याद् ‘समानानां तेन.' ।१।२।१। इति दोघे 'एकाद्'इति जाते तृतीयस्य पञ्चमे'।१।३।१।इति दस्य नकारे एकान्नविंशतिरिति। नस्य विकल्पेन विधानात् तदभावपो एकाद्नविंशतिरिति। ननु न विंशतिरविंशा 'नत्रत्।३।२।१२५॥इति नत्रोऽदादेशे नत्रव्ययात् संख्यायाः ड:'।७।३।१२३॥इतिडसमासान्ते च'भवितव्यमिति चेत्सत्यं न विंशत्यादिना' इति निर्देशान्न भवत्यन्यथेति निर्देशोऽनर्थकः स्यात् ॥६॥
चतुर्थी प्रकृत्या ।३।१७०।