________________
( ८७ e)
प्रकृतिः परिणामिकारणम् । एतद्वाचिनैका चतुर्य्यन्तं विका'कारार्थ' समासस्तत्पुरुषः स्यात् । यूपदारू । प्रकृत्येति किस रन्धनाय स्थाली ॥७०॥
परिणाम तावः दारुणो यूपी विकारस्तद्भवनं तद्र पापत्तिः स परिणामः । परिणामोsस्यातीति परिणामि । प्रक्रियते रूपान्तरमापद्यत इति प्रकृतिः । यूपो विकृतिः, दारु प्रकृतिः । रन्धनाय स्थालीति - नात्र प्रकृति - विकृति -
भाव: ।। ७० ।।
हितादिभि: |३|१|७१।
चतुर्थ्यन्तं हिताद्य: समासस्तत्पुरुषः स्यात् । गोहितम् । गोसुखम् -
॥७१॥
गोभ्यो हितम् गोहितम् । गोभ्यां सुखम् ' हितसुखाभ्याम् | २ २ ६५ इति चतुर्थी समासादाशिर्षोऽ-नवगमान्नाशिषि' तद्रायुष्य ० ' | २|२|६६ | इति चतुर्थी । बहुवचनमाकृतिगणार्थं तेन आत्मनेपदं परस्मैपदमित्यादि सिद्धम् । अत 'परात्मभ्यां ङे:' ।३।२।१७। इति सूत्रेण चतुर्थ्या लोपो न भवति ॥ ७१ ॥
तदर्थार्थन | ३|१|७२ |
चतुर्थ्यर्थो यस्य तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुषः स्यात् । पित्रर्ण पयः । आतुरार्था यवागूः । तदर्थार्थेनेति किम् । पित्रेऽर्थः ॥ ७२ ॥ - --
पित्रे इदं पित्रथं पयः । आतुरायेयम् आतुरार्था यवागूः 'ङेऽर्थो वाच्यवत्' इति लिङ्गानुशासनाद् वाच्य - लिङ्गता, नित्यसमासश्चायं चतुर्थ्येव तदर्थ - स्योक्तत्वादर्थशब्दाप्रयोगे वाक्यासंभवात् समासस्तु वचनाद् भवति । अस्वपदघटितविग्रहरूपत्वं नित्य-समासत्वम् । पित्रेऽथं इति तदर्थं धनमि+ त्यर्थः ॥७२॥
पञ्चमी भयाद्यः ॥ ३ ॥ १॥७३॥