________________
( ८४ )
तन्व्येणास्यगणार्थत्वं न स्यात् तदा विशेषणपारतन्त्र्येणेषद्रक्तशब्दस्योनार्थत्वं कथं स्वीकार्यम् ईषच्छब्दस्योनार्थत्वे-ऽपि समदायस्य तदर्थत्वाभावादिति तस्य गुणवाचकत्वाक्षतेः । न च पूर्वादेराकृति-गणत्वात् 'ऊनार्थ-पूवाद्य:' ।३।१।६६। इति सूत्रण समासः स्यादिति वाच्यं तस्यागतिकगतित्वात् ॥६४॥
.
.
तृतीया तत्कृतः ।३।११६५॥ तृतीयात्तं तदर्शकृतगुणवचननैरेकायें समासस्तत्पुरुषः स्यात् । शङ्क लाखण्डः । मदपटुः । तत्कृतैरिति किम् । अक्षणा काणः । गुणवचनरित्येव । दध्ना पटुः पाटवमित्यर्थः ॥६५॥ शङकुलया कृतः खण्डः-शकुलाखण्ड: मदेन कृतः पटुः कृतार्थो वृत्तावन्तर्भूत इति कृतशब्दो न प्रयुज्यते । खण्ड: क्रियारूपापन्ने गुणे वतित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तते इति गुणवचनः । अक्षणा काणः इति नात्र काणत्वमक्ष्णा कृतं किन्तु काण्डादिकृतमक्ष्यादीनां तु संबन्धमानं यद्भदैस्तद्वदा०' ।२।२।४६। इति तृतीया यदा तु तत्कृतत्वविवक्षायो कर्तरि करणे वा तृतीया तदा भवत्येव समासः अक्षिकाण इति । दघ्ना पटुः इति-नह्यत्र पटुशब्दः पूर्व गुणमुक्त वा साम्प्रतं द्रव्ये वर्तते अतो न गुणवचनः । अत एव शुद्धगुणवाचिनापि समासो न भवति यथा घृतेन पाटवमित्यादि ॥६॥
चतस्रार्द्धम् ।३।१।६६॥ अर्द्धस्तृतीयान्तस्तत्कृतार्गेन चतसृशब्देन समासस्तत्पुरुषः स्यात् । अर्द्ध चतस्रो मात्राः । चतस्रति किम् । अद्धन चत्वारो द्रोणाः ॥६६॥ अर्धेन कृताश्चतस्रोऽर्धचतस्रो मात्राः । 'त्रिचतुरस्ति' ।।११। इति चत