________________
ईषद्गुणवचनः ।३।१।६४॥ ईषदव्ययं गुणवचनैः समासस्तत्पुरूषः स्यात् ये गुणे वत्तित्वा तद्योगाद् गुणिनि वर्त्तन्ते ते गुणवचनाः । ईषत्पिङ्गलः । ईषद्रक्तः । गुणव-चनैरिति किम् ? ईषद्गार्गः ॥६४। गुणवचना इत्यस्य द्विधा व्याख्यानं-ये गुणमुक्तवन्तस्ते गुणवचना इति यैर्गुणः उक्तस्ते गुणवचनाः इति च । तत्र प्रथमव्याख्याने 'बहुलम्' ।५।१।२। इति कर्तयनटि 'वचन' इति ततः षष्ठीसमासे 'गुणवचना' इति । यद्यप्यनटा भतार्थता नोच्यते तथापि वचनग्रहणसामर्थ्यात् भतप्रतिपतिः । गणवचना गणवृत्ता इत्यर्थो तू न ज्ञयोऽ-न्यथा गणवचनमनर्थकं स्यात, गुणेनेत्यस्यैवोपादेयत्वात् तत्र गुणे कार्यासम्भवात् तत्र वर्तमाने शव्दे संप्रत्ययः स्यात् परन्तु 'गणमुक्तवन्तो गणवचनाः' इति पूर्वाचार्यप्रसिद्धिः तत्प्रसिद्धया चेहोपादानमित्ययमों लभ्यते । द्वितीयव्याख्याने ऽपि यैरिति कर्तरि तृतीया । शब्दा हि स्वव्यापारमुक्ति प्रति कर्तारो भवन्ति । ईषत्पिङ्गल इति-ईषत् अल्पं पिङ्गलः । अत्र पिङ्गलशब्दो पटस्य पिङ्गलः इत्यत्र पिङ्गतालक्षणगुणे वर्तमानः सन् पट: पिङ्गल इत्यत्र गुणिनि द्रव्यविशेषे वर्तते । ईषद्गार्य इति-गुणैः क्रियया वा होनो गार्य एवमुच्यते वृद्धापत्यमिति ‘गर्गादेर्यत्र' ।६।१।४२। इति यत्रि गार्ग्यः अपत्यप्रत्ययान्तस्य गोत्रत्वात् ‘गोत्रच चरणैः सह' इति जातिवचनो गार्यशब्दः । समासे तद्धितकाम्यसमासान्तरादीनि प्रयोजनम् । यथा ईषत्पिङ्गलस्येदम् 'तस्येदम्' ।६।३।१६०। इत्यण् ईषत्पिङ्गलमैच्छदिति 'द्वितीयायाः काम्यः ।३।४।२२। इति समुदायादेव काम्यप्रत्यये तद्घटितसमुदायस्य च धातुत्वात् तस्यैवाद्यस्वरस्य वृद्धी ऐषत्पिङ्गलकाम्यदिति भवति । कोपेनेषद् रक्त इत्यत्र ईषद्रक्त इति समुदायस्यैकनामत्वात् तृतीया तत्कृतैः ।३।१।६५। इति समासो भवति । अन्यथा 'नाम नाम्ना' इत्यनुवृत्तेरेकत्वस्य च विवक्षणात् त्रिपदसमासो न स्यात् सति त्वस्मिन् योगे ईषच्छब्दस्य रक्तशब्देन समासे एकनामत्वात् कोपशब्देन समासो भवत्येव । न च रक्त-शब्दस्य गुणवचनत्वेऽपीपद्रक्तस्य गुणवचनत्वं कथमिति वाच्यम्, विशेष्यपारतन्त्र्येण तस्य गुणवाचकत्वाक्षते: वचनस्य गुणवाचकत्वं निराकृत्य 'ऊनार्थ पूर्वा.' ।३।१।६६। इति सूत्रण समास-कथनं तु नोचितं यतो यदि विशेष्यपार