________________
(
२ )
क्त नेति निवृत्तम् व्याप्तिः गुणक्रियाद्रव्यरत्यन्तसंयोगः । गुणक्रियाद्रव्यैरत्यन्तसंयोगे या द्वितीयेति-'कालाध्वनोाप्तौ' ।२।२।४२। इति सूत्रविहिता या द्वितीयेत्यर्थः । व्यापकं विना व्याप्तेरसम्भवादाह-व्यापकार्थेनेति । मुहूर्त सुखमिति-मुहूर्त सुखमिति विग्रहोऽ-त्र गुणेनात्यन्तसंयोगः । क्षणं पाठः क्षणपाठोऽ-त्र क्रिययात्यन्तसंयोगः । मुहूर्त गुडः अन्न द्रव्येणात्यन्तसंयोगः । मासं पूरको यातीति पूरयिष्यतीति पूरक: णकच्प्रत्ययः, अत्र कदेशमात्रसम्बन्ध इति व्याप्त्यभावात्समासो न भवति ॥६१॥. ..
श्रितादिभिः ।३।१।६। द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुषः स्यात् । धर्मश्रितः । शिवगतः ॥६२॥ "श्रिग सेवायाम्' इति गताविह वर्तते धर्म श्रितः प्राप्तः इत्यर्थः तेन 'गत्यर्था०' ।।१।११। इति कर्तरि क्तः धर्मकर्मकश्रयणकर्तेत्यर्थः । बहुवचनमाकृतिगणार्थम् ॥६२॥
प्राप्तापन्नौ तयाच्च ।३।११६३॥ एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् । तद्योगे चानयोरत् स्यात् । प्राप्तजीविका । आपन्नजीविका ॥६३॥ प्राप्ता जीविकां प्राप्तजीविका । आपन्ना जीविका-मापन्न-जीविका । परतः-स्त्री०' ।३।२।४६। इति पुवद्भावाप्राप्तेरनयोरद्विधानम् अद्वचनं स्त्रीलिङ्गार्थम् । पुलिङ्ग तु प्राप्तो जीविकां प्राप्त जीविता आपन्नो जीविकामापन्न-जीविकः । प्राप्तापन्नयोः प्रथमोक्तत्वात् पूर्वनिपातायं वचनम् । अनयोः श्रितादित्वाच्च पूर्वसूत्रेण समासे द्वितीयान्तस्यापि प्रथमोक्तत्वेन प्राग्निपातः तेन जीविकाप्राप्तो जीविकापन्नः इत्यपि भवति ॥६३॥ .