________________
( ८१ )
अनधीतविद्यो गुर्वनुज्ञारेहितश्च यदि भार्यया सह तल्पमारोहेत् तदा निनिदत भवति । निन्दितम् आचार्य सनार्थत्वे तु गुरुभिराचार्यकर्मणेऽनुज्ञात एव यदाचार्यासनमधिरोहेत् तदा न निन्दितम्, यदा तु विपरीतं तदा निन्दितं खट्वारोहणम् । निन्दितो खट्वा- रोहणे क्षेपो भवति । उपलक्षणं चेह खट्वारोहणमुत्पथप्रस्थानस्य । काके भ्यो दधि रक्ष्यताम्' इति काकै रुपघातकमात्र, तेन सर्वोऽ-पि विमार्ग प्रस्थितः खट्वारूढ इत्युच्यते इतरमते आयुषः चतुरः भागात् कृत्वा चत्वार आश्रमा विहिताः । द्वितीयाश्रमेपि अनासक्त न भाव्यम् तृतीयाश्रमे सर्वत्यागाभ्यास । चतर्थाश्रमे सर्वत्यागी एव भवति आर्यः सर्वत्यागी भूत्वा सर्वत्याग-भावनायामेव वा शरीरं त्यजति ॥५६॥ .
कालः ।३।१।६०॥ कालिवाचिद्वितीयान्तं तान्तेन समासस्तत्पुरुषः स्यात् । राठ्यारूढाः । अहरतिसृताः॥६०॥ रात्रिमारूढाः रात्र्यारूढाः । अहः अतिमृताः अहरतिसृताः । षड़ मुहूर्ताश्चराचराः इति तु विशेष्यम् ते दक्षिणायने रात्रिं गच्छन्ति उत्तरायणे त्वहरिति । अयं भावः-त्रिंशन्महूर्ता अहोरात्रः तत्रानो रात्रेश्च द्वादश मुहूर्ता ध्र वाः । षट् चरन्ति भ्रमन्तीति चराचराः अनवस्थिता इत्यर्थः । 'चराचर०' ।४।१।१३। इति निपातना-दचि द्विर्भावे च चराचरशब्दः । चराचरा अनवस्था-यिनः तेनोत्तरायणे क्रमेणाहर्गच्छन्ति, दक्षिणायने
रात्रिम्, अत एवोत्त-रायणेऽ हानि वर्धन्ते, रात्रयो हीयन्तो दक्षिणायने . रात्रयो· वर्धन्ते अहानि हीयन्ते ते मुहूर्ता अहरतिसृताः' इत्यनेनोच्यन्ते । अव्यात्प्यर्थोऽ यमारम्भः । व्याप्तौ युत्तरेण सिध्यति ।।६।। व्याप्तौ ।३।१।६१॥
गुणक्रियाद्रव्यरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचि व्यापकार्थेन समासस्तत्पुरुषः स्यात् । मुहूर्त सुखं । क्षणपाठः । दिनगुडः । व्याप्ताविति किम् । गासं पूरको याति ॥६१॥