________________
( 50 )
अशांशिनिवृत्तौ तत्सम्बद्ध वेति निवृत्तम् । काल इत्येकवचनं द्विगोरन्यत्र प्रयोजकम् तेन मासी मासा वा जातस्येत्यत्र न भवति द्विगो तु द्वौ यो वा मासा जातस्य द्विमासजातः, त्रिमासजात इत्यपि भवति द्विगुग्रहणं त्रिपदसमासार्थम्, अन्यथा नाम नाम्नेत्यनुवृत्तेर्द्वयोरेव स्यात् । मासो जातस्य मासजातः एको मासो जातस्य एकमासजातः द्वो अहनी सुप्तस्य द्वयह्रसुप्तः । अयमपि षष्ठीसमासा - पवादो - योगः ।। ५७ ।।
स्वयंसामी क्त ेन | ३|१|५८
एते अव्यये क्तान्तेन सहैका समासस्तत्पुरुषः स्याताम् । स्वयंधौतम् । सामिकृतम् । तेनेति किम् । स्वयंकृत्वा ॥ ५८ ॥
,
स्वयं धौतम् - स्वयंधौतम् । सामि कृतम् - सामिकृतम् । सामिशब्दोऽर्धपर्यायः । समासे सत्यैकपद्यादेक-विभक्तिस्तद्धिताद्य त्पतिश्च भवति यथा स्वयंधीतस्यापत्यमिति 'अत इत्र ' | ६ || ३१ | इति समुदायादेवेत्रि स्वायंधौतिः । सामिकृतस्यापत्यम् 'अवृद्धा दोनंवा' | ६ |9|११० । इति विकल्पेनायनित्रि सामिकृतायनिः पक्षे 'अत इत्र | ६|१|३ | इतीत्रि सामिकृतिः । एवं समासत्वात् नित्यं सन्धिविरामा- भावोऽपि । यदुक्त - 'संहितैकपदे नित्या ' वर्णानां परस्परं सन्निकर्षः संहिता ॥ ५८ ॥
द्वितीया खट्वा क्षेपे | ३|१|५६ ।
| खट्वेतिद्वितीयान्तं क्ष पे निन्दायां क्तान्तेन सहैकार्थ्यं समासस्तत्पुरुषः स्यात् । खट्वारूढो जाल्मः । क्षेपइति किम् । खट्वा - मारूढः पिताऽध्यापयति ॥ ५६ ॥
खट्वारूढ इति क्ष ेपः समासार्थो न वाक्येन गम्यते इति नित्य एवायं समासः । खट्वारूढ़: उत्पथप्रस्थित एवमुच्यते । खट्वा - पल्यङ्कः आचार्यासनं वा खद्वाशब्दस्य पल्यङ्कार्थत्वे - गुरुपार्श्वे ब्रह्मचर्यव्रतधारणपूर्वकमध्यंयनं तत्परिसमाप्य गुरुभिः (गृहस्थ गुरुभिः) गृहस्थाश्रमप्रवे- शायानुज्ञातेन प्रथमाश्रमे एव यावज्जीवं स्थातुमशक्त ेन द्वितीयाश्रमप्रवेशः अनिन्दितः ।