________________
( ७६ )
जरत्यादिभिः | ३|१|५५।
एभिरंशिभिरभिन्नैरद्धों वा समासस्तत्पुरुषः स्यात् । अर्द्धजरती । जरत्यर्द्धः । अद्धक्तम् । उक्तार्द्धः ||५५||
असमांशार्थ आरम्भः । अर्धी जरत्या - अर्धजरती, पक्षे जरत्यर्धः, उक्तस्यार्धः अधोक्त पक्षे उक्तार्धः । बहुवचनमाकृतिगणार्थम् । पूर्ववत् इदमपि षष्ठीसमासबाधनार्थम् ||५५।।
द्वित्रिचतुष्पूरणाग्रादयः | ३ | १|५६ ॥
पूरणप्रत्ययान्ता द्वित्रिचत्वारोऽग्रादयश्चाभिन्नेनांशिना वा समासस्तत्पुरुषः स्यात् । द्वितीयभिक्षा । भिक्षाद्वितीयम् । तृतीयभिक्षा | भिक्षांतृतीयम् । तुर्यभिक्षा | भिक्षातुर्यम् । अग्रहस्तः ।
हस्ताग्रम् । तलपादः । पादतलम् ॥५६॥
द्वितीयं भिक्षायाः - द्वितीयभिक्षा एवं तृतीयभिक्षा एवं तृतीयभिक्षेत्यादि 'येयौ च लुक् च' ।७।१।१६४ | इति तुर्यम् । अग्रं हस्तस्य - अग्रहस्तः एवं तलपादः पक्षे भिक्षाद्वितीयमित्यादि । नित्याधिकाराभावादेव पक्षे वाक्यस्य सिद्धत्वेऽपि वाऽनुवृत्तिः पक्षे षष्ठीसमासार्थम् तेन पूरणेन 'तृप्तार्थ ० ' | ३||८५ इति निषिद्धोऽपि षष्ठीसमासो भवति । अग्रादिराकृतिगणः ॥५६॥
कालो द्विगौ च मेयैः ॥ ३ । १ ५७
कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुषः स्यात् । मासजातः । द्विगौ एकमासजातः द्वयह्रसुप्तः । कालइति किम् । द्रोणो धान्यस्य ॥ ५७ ॥