________________
( ७८ )
सायाह्नादयः ।३।११५३॥
एतेऽशितत्पुरुषाः साधवः स्युः । सायाह्नः । मध्यन्दिनम् ॥५३॥
सायमह्नः सायाह्नः सायंशब्दः मान्तोऽव्ययम् तदैतत्सूत्रनिर्देशवलादेव मकारलोपः यदा तु सायशब्दोऽकारान्तोऽ-नव्ययम् तदा तुं निसर्गतो मकारो नास्ति 'सर्वांशसङ्खया०' ।७।४।११८। इत्यद समासान्तः अह्नादेशश्च । सायं दिनावसानम् । ननु सायशब्दस्य वा दिनान्तवाचकत्वे तेन सहाह्नः कथं सामर्थ्य मिति चेत् उच्यते सायंशब्दस्य दिनान्तवाचकत्वेऽपि 'विशिष्टवाचकपदस्य सति विशेषणवाचकपदसमभिव्याहारे विशेष्यमात्रपरत्वमिति सिद्धान्तात् सायशब्दस्य वाऽन्तमात्रवाचकत्वमिति अह्ना सह सामोपपत्तिः । मध्यं दिनस्य-मध्यंन्दिनम् 'लोकम्पृण-मध्यंदिन०' ।३।२।११३। इति निपातनात् पूर्वपदस्य मान्तत्वम् । बहुवचनमाकृतिगणार्थम् । पूर्वे पञ्चालाः, उत्तरे पञ्चालाः' इति-वत् समुदायवाचिनामंशेऽपि प्रवृत्ति-दर्शनात् सामाना-धिकरण्ये सति कर्मधारयेणैव सिद्धम् पूर्वश्चासौ कायश्च पूर्वकायः, सायं च तदहश्च सायाह्नः इति तत्पुरुषविधानं त्विह पूर्वत्र चाह्नः सायं कायस्य पूर्वमिति षष्ठी-समासबाधनार्थम् ॥५३॥
समेंऽशेऽर्द्ध नवा ।३।११५४।
समांशार्थमर्द्धमंशिना अ-भिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिष्पली । पिष्पल्यर्द्धम् । समेंशइति किम् । ग्रामाद्धः ॥५४॥ अर्धं पिप्पल्याः-अर्धपिप्पली पक्षे पिप्पल्यर्द्धम् । अधं च सा पिप्पली चेति कर्मधारयेणैव सिद्धे भेदविवक्षायां पक्षे षष्ठीसमासबाधनार्थम समांशे
चार्धश्चासौ ग्रामश्चेति कर्मधा-रयनिषेधार्थ वचनम् । समेंशे वर्तमानोऽर्धशब्दो नपुसकः, असमांशे तु पुलिङ्गः ॥५४॥