________________
( ७७ )
O
. नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः । न सूर्य पश्य
न्ति असूर्यम्पश्या राजदाराः ॥५१॥ न गौ: अगौ: 'गोस्तत्पुरुषात्' ।७।१।१०५॥ इति प्राप्तोऽपि समासान्तः 'नञ्तत्पुरुषात्' ।७।३७१। इति प्रतिषिघ्यते, नत्रः 'नत्रत्' ।३।२।१२५। इत्यदादेशः । अत्र पर्युदासो नत्रर्थः, पर्य दासस्तु सदृशबोधकः तेन गोसदृश इत्यर्थः । तद्भिन्नत्वे सति तद्गतभूयोधर्मबत्त्वम् सादृश्यम् । प्रसज्यप्रतिषेधे त्वसामर्थेऽपि 'किंहिवचनान्न भवति' इति न्यायात् समासः ‘असूर्योग्रादृशः' ।५।१।१२६॥ इति 'श्रीति०' ।४।२।१०८। इति दृशेः पश्यादेशः 'खित्यनव्यया०' ।३।२।१११। इति पूर्वस्य मागमः। परपुरुषदर्शनाभाव एव तात्पर्य तेनं सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते ॥५१॥
पूर्वाप राधरोत्तरमभिन्ननाशिना ३।१॥५२॥ पूर्वादयोऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् । नचेत्सों-ऽशी भिन्नः । पूर्वकायः । अपरकायः । उत्तरकायः । अधरकायः । अभिन्नेनेति किम् । पूर्व छात्राणामामन्त्रस्व । शिनेति किम् । पूर्वो नाभेः कायस्य ॥५२॥ . अंशोऽवयव-स्तद्वानंशी अवयवी अवयवसमुदायवानिति यावत् । पूर्व कायस्य-पूर्वकायः एवम् अपरकाय इत्यादि । पूर्वादिशब्दस्य दिशि दृष्टत्वेप्यत्रावयव-वाचित्वात्तद्योगे 'प्रभृत्यन्यार्थ०' ।२।२।७५। इति न पञ्चमी । पूर्व छात्राणामिति-अत्र छात्रशब्द: छात्र-समुदायपरः बहुवचनं तूभृतावयवभेदसमुदायविवक्षया बहुवचनाद्भदः प्रतीयत इति समासो न भवति अंशी यत्रैकत्वसङ्खयविशिष्टस्तत्रैवा-भेदप्रतीतिः । पूर्वो नाभेः कायस्येतिनाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः । नाभेरिति पञ्चमी, नाभिः पूर्वभागस्यावधिर्न त्वंशीति नाम्ना न समासः, कायेन तु स्यादेव पूर्वकायो नाभेरिति पूर्वशब्दस्य नित्यसापेक्षत्वात् प्रधानत्वाच्च ॥५२॥