________________
( ७६ )
अव्ययं प्रवृद्धादिभिस्सह नित्यं समासस्तत्पुरुषः स्यात् । पुनःप्रवृद्धम् । अन्तर्भूतः ॥४८॥ पुनः प्रवृद्धमिति-बहिरिति विशेष्य ज्ञेयम् नित्यसमासोऽयम् अर्थदर्शनाय च पुनर्वर्धते स्म,इति विग्रहः कार्यः बर्हि कुशः छिन्नोऽपि यः पुनर्वर्धत इत्यर्थः। 'कालवाचकात् पुनः-शब्दात् 'कालाध्वनो०' ।।२।४२। इति विकल्पेन द्वितीया सप्तमी वा। अन्तर्भूत इति-अन्तर्भवति स्मेति विग्रहः। बहुवचनमाकृतिगणार्थम् ॥१४॥
इस्य क्तं कृता ।३।१।४६। कृत्प्रत्ययविधायके सूत्रे उस्यन्त-नाम्नोक्तं कृदन्तेन नाम्ना नित्यं समासस्तत्पुरुषः स्यात् । कुम्भकार। उस्युक्तमिति किम् । अलङ्कृत्वा । कृतेति किम् । धर्मो वो रक्षतु ॥४६॥ हस्यन्तनाम्नोक्तमिति-पञ्चम्यन्तनाम्नोक्तमित्यर्थः । कुम्भकार इति ‘कर्मणोऽण' ।५।१।७२। इत्यण् । अलङ्कृत्वेति-'निषेधेऽलंखल्वोः क्त्वा' ।५।४।४४ इति, नाऽत्र सूत्रेऽलंशब्दः पञ्चम्यन्तोऽपितु सप्तम्यन्त इति न भवति । धर्मों वो रक्षत्विति-अत्र ‘पदाद्य ग्वि०' ।२।१।२१॥ इति वसादेशः ‘पदादिति इस्युक्तत्वेऽपि युष्मदः कृदन्तत्वाभावान्न समासः ॥४।।'
तृतीयोक्त वा ।३।११५०। दशेस्तृतीययेत्यतो यत्तृतीयोक्तं नाम तत्कृदन्तेन वा समासस्तत्पुरुषः स्यात् । मूलकोपदंशम् । मूलकेनोपदंशं भुङ्क्ते ॥५०॥ वाशब्दो नित्यसमासनिवृत्त्यर्थः तेनोत्तरेषु वाक्यमपि भवति यद्वा पृथक्सूत्रकरणादेव नित्यत्वनिवृत्ती वा-शब्दो नित्यसमासाधिकारनिवृत्त्यर्थः ।।५०।।
ना ।३।११५१॥