________________
(
७५
)
निरादयः क्रान्ताद्यर्थाः पञ्चम्यन्तैनित्यं समासस्तत्पुरुषः स्युः । प्राचार्यः । समर्थः। अतिखट्वः । उद्वेलः । अवकोकिलः । परिवोरुत् । पर्यध्ययनः। उत्सङ्ग्रामः । निष्कौशाम्बिः । अपशाखः बाहुलकात् षष्ठयाऽपि । अन्तर्गााः । गताद्यर्थाइति किम् । वृक्षम्परि विद्युत् । अन्यइत्येव । प्राचार्यको देशः ॥४७॥ 'प्रात्यवपरिनिरादयः' इति द्वन्द्वगर्भो बहुव्रीहिः, ‘गत-क्रान्त-क्रुष्ट-ग्लान-... क्रान्ताद्यर्थाः इति च द्वन्द्वगर्भबहुव्रीहिगभबहुव्रीहिः, 'प्रथमाद्यन्तैः' इत्यत्रा दिपदेन द्वितीया-तृतीया-चतुर्थी-पञ्चमी-विभक्तीनां संग्रहो बहुव्रीहिगर्भो बहुव्रीहिश्च। 'द्वन्द्वान्ते द्वन्द्वादी वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायेनादिशब्दस्य प्रत्येकं सम्बन्धः उभयत्र च यथासंख्यमनुदेशः समानाम्' इति न्यायेन क्रमेणान्वयः । प्रादीनां गताद्यर्थेषु वर्तमानत्वं परस्परार्थान्तर्भावेण, तथाहि-यथा 'उपास्यते गुरुः' इत्यादावुपसर्गार्थान्तर्भावेण धातूनां सकर्मकवादिकं जायते, तथा प्रादीनामपि, क्तादिप्रत्ययविशिष्टधात्वर्थावगमकत्वेन तदर्थं वृत्तिरिति गतादिषु गम्यादिक्रिया-विशिष्ट-साधनेषु वृत्तित्तिविषये विज्ञायते इत्याहुः । प्रगतः आचार्यः प्राचार्यः । प्रगतत्वं चाचार्यस्य स्वविषयपारगामित्वम् । संगतोऽर्थः समर्थः, अतिक्रान्त खट्वाम्अतिखट्वः। खट्वाकर्मका-तिक्रमण-कर्तेत्यर्थः उद्गतो वेलाम्-उद्वलः उल्लङ्घितट इत्यर्थः ‘गोश्चान्ते.' ।२।४।१६। इतीह पूर्वत्र च ह्रस्वत्वं ज्ञेयम्-अवकृष्टः कोकिलया-अवकोकिलः . कोकिलया आहूत इत्यर्थः । " परिणद्धो विरुतिः, परिविरुत् । परिग्लानोऽध्ययनाय पर्यध्ययनः गुरुकुलवासपरिचर्यादिव्यासङ्गादध्ययनाथं ग्लान इत्यर्थः । उद्युक्तः संग्रामायउत्संग्रामः । निष्कान्तः कौशाम्ब्याः निष्कौशाम्बिः । अपगतः शाखायाः अपशाखः अन्तर्गतो गाय॑स्य अन्तर्गागः । प्रगता आचार्या यस्मिन् स प्राचार्यको देशः 'उष्टमुखादयः' ।३।१।२३। इति समासः बहुव्रीहित्वात् च कच समासान्तो भवति । बहुवचनमाकृतिगणार्थम् । तथा चोक्तातिरिक्तानामपि प्रादीनां गतादीनां विभक्तीनां च संग्रह इति भावः ॥४॥
अव्ययं प्रवृद्धादिभिः ३।१।४८।