________________
( ७४ )
शोभनो राजा सुराजा 'राजन्सखे:' ।७।३।१०६। इति प्राप्तोऽपि समासान्तः 'पूजास्वते.' ७३७२। इति निषिध्यते । मद्राणां समृद्धि:-सुमद्रम् अत्र 'विभक्तिसमीप० ।।१३९। इत्यव्ययीभावात् 'अमव्ययीः' ।।२।२। इति पञ्चमीवर्जस्यादेरमादेशो भवति ॥४४।।
अतिरतिक्रमे च ।३।१।४५॥ अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य । अतिराजा ॥४५॥ अतिस्तुत्येति-अतिक्रमेण स्तवनं कृत्वेत्यर्थ अत्रसमासत्वात् क्त्वाया यबादेश। अनातिकमार्थत्वेनातेरुपसर्गसंज्ञाविरहात् 'उपसर्गात०' ।२।३।३६॥ इति षत्वं न भवति । पूजायाम्-शोभनो राजा-अतिराजा, राजन्सखेः'।७।३।१०६। इति प्राप्तोऽपि समासान्तः 'पूजास्वतेः' ।७।३।७२। इति निषिध्यते । ॥४५॥
आङल्पे ३।१।४६॥ आङित्यव्ययमल्पार्थ नाम्ना सह-समासस्तत्पुरुषः स्यात् । आक- .. डारः ॥४६॥ ईषत् कडारः आकडारः । कडारशब्दः पिङ्गलवणे तद्वति च ॥४५॥
प्रात्यवपरिनिरादयो गतक्रान्तक ष्टग्लानक्रान्ताद्याः प्रथमाद्यन्तैः ॥३॥१॥४७॥ प्रादयो गताद्यर्थाः प्रथमान्तरत्यादयः कान्ताद्यर्था द्वितीयान्तरवादयः क्रुष्टाद्यर्थास्तृतीयान्तैः पर्यादयो ग्लानाद्यर्थाश्चतुर्थ्यान्तै