________________
( ७३ )
गति-क्वन्यस्तत्पुरुषः ।३।१।४२॥ गतयः कुश्च नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । अन्यो बहुनीह्यादिलक्षणहीनः । ऊरीकृत्य । खाद्कृत्य । प्रकृत्य । कारि काकृत्य । कुब्राह्मणः । कोष्ठम् । अन्य इति किम् । कुपुरुष: ।४२। 'कु' इत्यव्ययं पापाऽल्पयोर्वर्तते । ऊरीकृत्येत्यत्रोर्यादिगणपठितत्वात् 'खाटुकृत्य' इत्यनुकरणत्वात् प्रकृत्येत्यत्र चोपसर्गत्वात् 'ऊर्याद्यनु०' ।३।१२। इति गति संज्ञा कारिकाकृत्येत्यत्र तु 'कारिका स्थित्यादौ' ।३।१३। इति गतिसञ्जकत्वादनेन तत्पुरुषः। गतिसंज्ञचावययं भवति,अत एव अव्ययपूर्वपदभावात् 'अननः क्वो यप' ।३।२।१५४। इत्यनेन यबादेशोऽपि भवति । कुत्सितो ब्राह्मणः कुब्राह्मणः ईषदुष्णं कोष्ठ 'काकवी वोष्णे' ।३।१३७॥ इति काऽदेशः कवादेशे तु कवोष्णम् एवं विकल्पपक्षे कोःकत् तत्पुरुषे'।३।२।१३०॥ इति कदादेशे कदुष्णमित्यपि भवति । कुत्सिताः पुरुषाः यस्य स कुपुरुषकः अत्र बहुव्रीहित्वात् कच् भवति ॥४२॥ ।
दुनिन्दाकृच्छ ।३।१॥४३॥ दुरब्ययं निन्दाकृच्छवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः । दुष्कृतम् । अन्य इति किम् । दुष्पुरुषक: ॥४३॥ निन्दितः पुरुषः दुष्पुरुषः । कृच्छ्रेण कृतं दुष्कृतम् । 'निदुर्ब०' ।२।३।६। इति षत्वम् । निन्दिताः पुरुषाः यस्य स दुष्पुरुषकः, अत्रापि बहुव्रीहित्वात् के भवति ॥४३॥
सुः पूजायाम् ।३।१।४४॥
स्वित्य व्ययं पूजार्थ नाम्ना सह नित्यं समासस्तत्पुरुष स्यात् । सुराजा । अन्य इति किम् । सुमद्रम् ॥४४॥