________________
( ७२ )
साकल्येऽनन्तर्भावः । पिण्डो भक्तमिष्यते अन्विष्यते कल्पयाकल्यविभागेन विचार्यतेऽस्मिन्निति 'इषोऽनिच्छायाम्' | ५|२| ११२ । इत्यने पिण्डेषणा दशवैकालिकग्रन्थे पिण्डेषणानामकं पञ्चममध्ययनमस्ति || ३६ ||
•
योग्यतावीप्सार्थानतिवृत्तिसादृश्ये | ३|१|४०|
एष्वर्थेsasarयं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुरूपम् । प्रत्यर्थम् । यथाशक्ति । सशीलमनयोः ॥ ४० ॥
योग्यतायाम् अनुरूपम् चेष्टते योग्यां चेष्टां कुरुते इत्यर्थः । वीप्सायाम् प्रत्यर्थं शब्दाः अभिनिविशन्ते अर्थमर्थं प्रतीत्यर्थशब्दात् वीप्सायां द्वितीयाया विधानातवाक्यमपि भवति अर्थमथं प्रतीति 'भागिनि च ० ' | २२|३७| इति वीप्स्ये प्रतिना योगे द्वितीया विधीयते । यदि वीप्सायामिह नित्य एव समासः स्यात् तदा तद्विधानमनर्थकं स्यात् समासे द्वितीयस्यामन्यस्यां वा विभक्तौ नास्ति कश्चिद्विशेषः वाक्ये त्वस्ति, अतस्तद्वितीयाविधानसामर्थ्यादिदं वाक्यमपि भवति | अर्थानतिवृत्तिः पदार्थानतिक्रमः - यथाशक्ति- शक्त रनतिक्रमेण । सशीलमनयोः शीलस्य सादृशमित्यर्थः । सदृगित्यनेनैव सिद्ध सादृश्य ग्रहणं मुख्यसादृश्यपरिग्रहार्थम् ॥४०॥
यथाऽथा |३|१|४१
थाप्रत्ययवर्जं यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययी भावः स्यात् । यथारूपं चेष्टते । यथावृद्धमर्चय । यथासूत्रम् । अथेति किम् । यथा चैत्रस्तथाः मंत्रः ॥४१॥
थाप्रत्ययवर्जंयथेत्यव्युत्पन्नमव्ययं यथारूपं चेष्ठते-रूपानुरूपमित्यर्थः । यथावृद्धमवयं-ये ये वृद्धास्तानित्यर्थः । यथासूत्रमनुतिष्ठति - सूत्राक्तार्थमनक्रम्येतिभावः । यया चैत्र स्तथा मैत्र इति येन प्रकरणे शौर्यादिना मंत्रस्तथाँ तेनैव शौर्यादिन। प्रकारेण मैत्र इत्यर्थः येन प्रकारेणेति यच्छन्द्वात् 'प्रकारे या | ७ |२| १०२ इति थाप्रत्ययः। पूर्वेणैव सिद्ध सादृश्ये प्रतिषेधार्थं 'वचनम् | ४१|