________________
( ७१ )
अधिस्त्रि । समीपम् उपकुम्भम् । समृद्धिः सुमद्रम् विगता ऋद्धिद्धिः दुर्यवनम् । अर्थाभावः निर्मक्षिकम् । अत्ययोऽतीतत्वम् अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभावः अतिकम्बलम् । पश्चात् अनुरथम् । क्रमः अनुज्येष्ठम् । ख्यातिः - इतिमद्रबाहुः । युगपत् - सचक्रं धेहि । सदृक्- सव्वतम्। सम्पत् - सब्रह्म साधूनाम् । साकल्यम् " सतृणमभ्यवहरति । अन्तः सपिण्डेषणमधीते ॥ ३६ ॥
- ।
·
-
·
1
अधिस्तीति निधेहि अत्र स्पष्टार्थं ज्ञेयम् । स्त्रीषु निधेहीत्यर्थः । 'स्त्रीषु' इति लौकिकं विग्रहवाक्यम् अलौकिकं तु 'अधि +सि, स्त्री+सुप्' इति अथवा अधि + जस स्त्री + जस्, इति । अत्राधिः सप्तम्यर्थे वर्तमानमव्ययं स्त्रीशब्देन प्रथमान्तेन सप्तम्यन्तेन वा समस्यते अधिनैवाधिकरणार्थो गतः न तत्र सप्तम्या अभिधेयमस्तीति प्रतिपत्तौ 'नाम्नः प्रथमै०' |२| ३|३१ इति प्रथमा भवति पदान्तराभिहितमेवार्थमधि - शब्दो द्योतयतीति प्रतिपत्तौ सप्तमी । नित्यसमासत्वात् सप्तम्या गतार्थत्वाच्च लौकिके विग्रहवाक्येऽधिशब्दप्रयोगो न भवति । कुम्भस्य समीपमुपकुम्भम्। ऋद्धेराधिक्यं - समृद्धिः । मद्राणां समृद्धि सुमद्र । विगता ऋद्धिव्यृद्धिः ऋद्ध्यभावःइत्यर्थः । दुर्वचनम्-यवनानां ऋद्धभाव इत्यर्थः । अर्थाभावः धर्मिणोऽसत्वम् । निर्मक्षिकं मक्षिकाणामभाव इत्यर्थः । अत्ययोऽतीतत्वम् ध्वंसत्त्वमित्यर्थः - अतिवर्ष वर्षाणामतीतत्वमित्यर्थ । असम्प्रतीति-वर्तमानकाले उपभोगादेः प्रतिषेधःअतिकम्बलं कम्बलस्योपभोगं प्रति नायं काल इत्यर्थः । अनुरथम् - रथस्य पश्चादित्यर्थः । क्रमः - आन पूर्व्यम् - अनुज्येष्ठम् - प्रविशतु ज्येष्ठानुक्रमेणेत्यर्थः । ख्यातिः शब्दप्रथा - इति भद्रबाहु भद्रबाहु शब्दो लोके प्रकाशत इत्यर्थः । युगपदेककालार्थः सचक्रं धेहि, चक्रेण सहैककालं चक्राणि वा युगपद्ध हीत्यर्थः । युगपदर्थे सहेत्यव्ययम् 'अकालेऽव्ययीभावे' | ३ |१| १४६ | इति सहस्य सभावः । सव्रतम् - व्रतस्य सदृशमित्यर्थः । अकालेऽव्ययीभावे' | ३|२| १४६ | इत्यव्ययीभावे सहस्य संभावः । संपत् सिद्धिः सत्र - साधूनां संपन्नं ब्रह्म - त्यर्थः । साकल्यमशेषता सतृणमभ्यवहरति न किञ्चित्त्यजतीत्यर्थः । सहशब्दोऽपरित्यागे वर्तते यावत् पात्र े परिविष्टं तत्र तृणमात्रमपि नावशेषितम् । सर्वमपि भुक्तमिति भावः । अन्तः समाप्तिः सपिण्डेषणमधीते पिण्डैषणापर्यन्तमधीत इत्यर्थः । अत्र समाप्ति रसकलेऽप्यध्ययने प्रतीयते इति