________________
( ७० )
अर्थात् अत्रास्त्र - पंदविग्रहः शब्दान्तरेणैवार्थ प्रदर्शनमन्यत्र तु समासमाजां पदानां समासोवाक्यं चेति ||३७||
सङ्ख्याऽक्षशलाकं परिणा द्यतेऽन्यथावृत्तौ |३||३८| सङ्ख्यावाच्यक्षशलाके च द्यूतविषयायामन्यथावृत्तौ वर्त्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात् । एकपरि । अक्षपरि । शलाकापरि । एकेनाक्षेण शलाकया वा न तथावृत्तं यथापूर्व जयइत्यर्थः । सङ्ख्यादीति किम् । पाशकेन न तथावृत्तम् । द्यूतइति किम् । रथस्याक्षेण न तथावृत्तम् ॥ ३८ ॥
पञ्चिका नाम द्यतं पञ्चभिरक्षैः शलाकाभिर्वा भवंति तत्र यदा सर्वे उत्ताना अवाञ्च वा पतन्ति तदा पातयितुर्जयः यदा तु पञ्चाप्येकरूपा न पतन्ति तदा पातयितुः पराजयः । एकेनेत्यादि - पञ्चाक्षद्य तें चत्वारोऽक्षा ऊर्ध्वमुखाः पतिताः एकोऽधोमुखः अथवा चत्वारोऽक्षा अधोमुखाः एक ऊर्ध्वमुखः पतितस्तदा 'एकपरि' इत्युच्यते इति भावः । वर्तने चैषां कर्तृत्वात् तृतीयान्तत्त्रम्, अक्ष-शलाकयोस्त्वेकवचनान्तयोरेवेष्यते । एवं द्वाभ्याम् अक्षाभ्यां शलाकाभ्यं वा न तथा वृत्तमित्याद्यर्थे एवं त्रिभिः अक्षैः शलाकाभिः न तथा वृत्तमित्याद्यर्ये च द्विपरि त्रिपरि चतुष्परीति भवति । पञ्चषु त्वेकरूपेषु जय एव भवति । अयमपि नित्यसमासः अतोऽस्वपदविग्रहः परिपदस्याप्रयोगात् । अक्ष ेणेदं न तथा वृत्तं यथा पूर्वं जय, अत्र एकवचनान्त एवं । अक्षाभ्यामक्षैरित्यादिवाक्ये न भवति शलाकापरि ||३८||
ܘ
ू
विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्ययाऽसंप्रतिपश्चात्क्रमख्यातियुगपत् सदृक्सम्पत्साकल्यान्तेऽव्ययम् |३|१|३६|
एष्वर्थेषु वर्त्तमानमव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये निस्यं समासोऽव्ययीभावः स्यात् । विभक्तिः - विभक्त्यर्थः कारकम् ।