________________
( ६६ )
व्युत्पादनेऽप्यव्युत्पन्नः ( प्रकृतिप्रत्ययार्थानुगतिशून्यः सन्निकृष्टार्थवाचीह समीपशब्दः ।) अनु वनस्य-अनुवनमशनिर्गता । वनस्य समीपे वज्रगतमिति वाक्यार्थः अनोरव्ययत्वात् । 'विभक्ति-समीप० ।३।१।३। इत्यादिनैव समासे सिद्ध विकल्पार्थं वचनम् तेन वाक्यमपि भवति पृथग्वचनं लक्षणेनेत्यस्य निवत्त्यर्थम् तेन लक्ष्यलक्षणभावाभावेऽपि समासो भवति तदनुवृत्तौ च तत्रैव स्यादिति । केचित्तु-प्रकृतसूत्रेऽपि 'लक्षणेन' इत्यस्य सम्बन्ध स्वीकुर्वते यदाह-अनुशब्द: समीप-समीपिनोर्लक्ष्यलक्षणभावद्योतकः तथाहि वनसामीप्यगताया अशनेर्वनं लक्षणमिति । सूत्रभेदश्च स्पष्टप्रतिपत्तये इति तदाशयः ॥३५।। .
तिष्ठग्वित्यादयः ।३।१॥३६॥ एते समासा अयोभावाः स्युः । यथायोगमन्यस्य पूर्वस्य वा पदस्यार्थे । तिष्ठद्गु कालः । अधोनाभं हतः ॥३६॥ तिष्ठन्ति गावो यस्मिन् काले गर्भग्रहणाय दोहाय वाहाय वत्सेभ्यो निवासाय जलपानार्थं वा स कालंस्तिष्ठद्गु। अयमन्यपदार्थे काले नाभेरधः अधोनाभम् निपातनादत् समासान्तः । पूर्वपदार्थ-प्रधानोऽयम् ‘तिष्ठगिक तिइत्यत्रेतिशब्दः स्वरूपपरिग्रहार्थः तेनेह समासान्तरं न भवति-परमं तिष्ठद्ग, तिष्ठद्गु प्रियमस्येति वाक्यमेव भवति । बहुवचनमाकृतिगणार्थम् ॥३६॥
नित्यं प्रतिनाऽल्पे ।३।१।३७।
अल्पार्थेन प्रतिना नाम नित्यं समासोऽव्ययीभावः स्यात् । शाकप्रति । अल्पइति किम् । वृक्षं प्रतिविद्युत् ॥३७॥ शाकस्याल्पत्वं शाकप्रति । वृक्षं प्रति विद्यु दिति-वृक्षं प्रति विद्योतते विद्यु दिति ज्ञेयम्, नान प्रतिशब्दोऽल्पार्थे अपि तु लक्षणे इति समासो न भवति । नित्यग्रहणं वाक्यनिवृत्त्यर्थम् तेनान्यत्र समासो वाक्यं च भवति ।