________________
( ६८ )
मुखं गत इत्यर्थः । पूर्व स्र ग्घ्नं परित्यज्यान्यत्र गतः पुनरपि स्र ग्घ्नं प्रत्येवाभिमूखीभूय दिङ्मोहादिना परावृत्त इति नात्र स्र रघ्नं लक्षणं यदुद्दिश्य हि गच्छति तल्लक्षणं भवति अत्र तु दिङ्मोहादेवेत्थं गतः गतक्रियापेक्षया च स्रग्ध्नस्य कर्मत्वम् । अभिमुखोऽङ्को यासां ताः अभ्यङ्का गावः ॥३३॥
दयेऽनु ।३।१॥३४॥ दध्ये आयामविषये यल्लक्षणं तद्वाचिना पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । अनुगङ्ग वाणारसी । दैर्घ्यइति किम् । वृक्षमनु विद्युत् ॥३४॥ वैषयिकाधिकरणे सप्तमीत्याह-आयामविषय इति विषयत्वं च द्योत्यद्योतकभाव-रूप-सम्बन्धः । अनुगङ्गां दीर्घा-अनुगङ्ग वाराणसी। गङ्गाया लक्षणभताया आयामेन वाराणस्या आयामो लक्ष्यते। ग्रथा गङ्गा दीर्घा स्थिता तथा वाराणसी दीर्घा स्थितेति लक्ष्यते इति गङ्गा वाराणसीदैर्घ्यस्य लक्षणं भवति । प्रसिद्ध लक्षणं भवति दीर्घत्वेन गङ्गा प्रसिद्धा तदनुगमनाद् काराणस्या दीर्घत्वमपि तत्सदृशं लक्ष्यते गङ्गादैर्ध्यसदृशोप पलक्षिता वाराणसीति प्रयोगार्थः । वृक्षमनु विद्यु दिति:वृक्षमनु विद्योतते विद्युत् इति ज्ञेयम् । वृक्षो विद्योतनस्य लक्षणत्वेन विवक्ष्यते न दैर्घ्यस्येति समासो न भवति ॥३४॥
समीपे ।३।१।३५॥
समीपार्थेऽनुः समोपिवाचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभाव: स्यात् । अनुवनमशनिर्गता ॥३५॥ समीपिवाचिनाम्नेति-समीपं नाम कस्यचित्समीपिनो भवति, नहि बिना समीपिना समीपं भवति, यथा पुत्रः पिता सम्बन्धित्वात् तत्र प्रत्यासत्त्या यस्य तत् समीपं तद्वाचिना नाम्ना समस्यते इत्यर्थः । संगता आपो यत्रेति 'यन्तर०' ।३।२।१०९। इत्यप ईपादेशे 'समीप' इति वर्णानुपूर्वीज्ञानार्थ