________________
( ६७ )
,
कृत्वा वृष्टो मेघः, अभिविध्यर्थस्तदा- ग्राममभिव्याप्य वृष्टो मेघः ग्रामेऽपि वृ॑ष्टः इत्यर्थः । बहिग्राममिति - ' प्रभृत्यन्यार्थ ० ' | २२|७५ | इति पञ्चमी ग्रामाद्बहिर्वृष्टो मेघ इत्यर्थः । प्राग्ग्राममिति प्रपूर्वः अञ्चति क्विप्, 'अञ्चोऽनर्थायाम्' | ४|२|४६ । इति नलोपः 'अञ्च : ' |२| ४ | ३ | इति ङी: ‘अच्व्प्राग्दीर्घश्च’ ।२।१।१०४ | इति 'च्' इत्यादेशे प्राची पूर्वा दिगित्यर्थः, प्राच्यां दिशि 'दिक्शब्दात् ० ' । ७ २ ११३ | इति धाप्रत्ययः, प्राच्यामदूरायां दिशीति वा 'अदूरे एन' | ७|२| १२२ । इति एनप्रत्ययः तयोश्च 'लुब ० ' |७|२| १२३ । इति लोपः तल्लुपि च 'ङयादेगौणस्या० ' २|४|५| इति ङीलोपे 'प्राच्' इति । तस्य' अधण्तस्वाद्याः ०' | १|१|३२| इत्यव्ययत्वम् । - ततः प्रथमासिः तस्य 'अव्ययस्य' | ३|२|७| इति लोपः तदनु 'चजः कगम्' |२|| ६ | इति चस्य त्वे 'घुटस्तृतीयः' | २|१|७६ | इति कस्य गत्वे च प्राग्' इति दिक्शब्दत्वात् तद्योगे 'प्रभृत्यन्यार्थ ० ' | २|२|७५ । इति पञ्चमी ग्रामतः पूर्वस्यां दिशि अदूरायां पूर्वस्यां दिशि वा वृष्टो मेघ इत्यर्थः । पर्यादिसाहचर्यात् अञ्चतिः धनलुबन्तोऽव्ययं गृह्यते तेन प्राङ् ग्रामात् चैत्र इत्यत्र न भवति । अत्र तु प्रकर्षेणाञ्चति गच्छतीति प्राङ् । नायमव्ययम्, 'पञ्चम्य०' |२| २६६। इति पञ्चमी, ग्रामापादानकगमनवान् चैत्र इति च बोधः । परि वृक्षमिति - परिवृक्षं विद्योतते विद्य ुदिति - ' भागिनि च ० ' |२२|३७| इति द्वितीया, वृक्षो लक्षणं विद्योतमाना विद्य ल्लक्ष्यम् अनयोश्च लक्ष्यलक्षणभा—वसम्बन्धः परिणा द्योत्यते वृक्षं लक्षीकृत्य विद्योतते विद्युदित्यर्थः ।।३२।।
लक्षणेनाभिप्रत्याभिमुख्ये । ३ ११३३ |
लक्षणं चिह्नम् । तद्वाचिनाऽऽभिमुख्यार्थावभिप्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अभ्यग्नि । प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् । श्रघ्नं प्रतिगतः । पूर्वपदार्थइत्येव । अभ्यङ्का गावः ॥ ३३॥
अभि अग्नि अभ्नग्नि, प्रति अग्नि प्रत्यग्नि । अग्नि लक्षीकृत्याभिमुखं पतन्तीत्यर्थः । स्रुग्घ्नं प्रति गत इति - प्रतिनिवृत्त्य पुनः स्रुग्घ्नमेवाभि