________________
( ६६ )
| ३|१|१४८ । इति गङ्गादिशब्दस्य प्राग्निपातः । यद्यपि गिरेरन्तः इत्यत्र अन्तः-शब्दस्या-व्ययत्वात् ' तृप्तार्थ ०' | ३|१|८५ । इति षष्ठीसमासो निषिध्यते, तथाप्यत्रवा-वचनसामर्थ्यात् समासो भवति अन्यथा तदंशे वावचनं व्यर्थमेव स्यादिति ||३०||
यादिवे | ३|१|३१|
इयस्वेऽवधारणे गम्ये यावदिति नाम नाम्ना पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् । यावद्दत्तम् तावद्भुक्तम् ||३१||
इदं निर्दिश्यमानं मानमस्येति 'इदंकिमो ० ' 1919 19४८ । इत्यतुप्रत्यये इयादेशे च इयत् इयतः । परिच्छिन्नपरिमाणस्य भावः इयत्त्वम् । यावन्त्यमत्राणीति यावदमत्रम् | भोजयेति - अतिथीन् भोजयेति तु स्पष्टार्थं ज्ञेयम् । यावन्त्यमत्राणीति निर्ज्ञातपरिमाणेनामवादिनां तावत इति अतिथि-परिमाणमिहावधार्यते । यावन्ति पञ्च षड् वा भाजनानि तावत एव पञ्च षड वाऽतिथीन् भोजय नोनाधिकानित्यर्थः । यावद्दत्तं तावद्भुक्तमितिकियद्दत्तं, कियद् भुक्तमिति नावधारयति ॥ ३१ ॥
पर्यपाबहिरच् पञ्चम्या | ३|१|३२|
एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । परित्रिगर्त्तम् । अपत्रिगर्तम् । आग्रामम् । बहिर्ग्रामम् । प्राग्ग्रामम् । पञ्चम्येति किम् । परिवृक्षं विद्यत् ॥ ३२ ॥
परि त्रिगर्तेभ्यः परित्रिगर्तम्, अप त्रिगर्तेभ्यः अपत्रिगर्तम्, आग्रामात् आग्रामम्, बहिर्ग्रामात् बहिर्ग्रामम् प्राग् ग्रामात् प्राग्ग्रामम् 'अप - परि' शब्दाविह वर्जनार्थी 'पर्याभ्यां वयें' | २|२|७७ | इति पञ्चमी 'त्रिगर्त ' इति देशविशेषस्य संज्ञा । वृष्टो मेघः इति योज्यतेतदा त्रिगर्तदेशं वर्जयित्वा मेघो वृष्ट इत्यर्थः । आङ् मर्यादाभिविध्यर्थः यदा मर्यादार्थस्तदा ग्राममवधि