________________
( ६५ )
व्याकरणस्यायप्रणेता-मुनिरेक इत्यर्थः । यथा श्रीसिद्धहेमशब्दानुशासनव्याकरणस्याद्यप्रवर्तक एक एव हेमचन्द्रप्रभुः, तेनैव वृत्तिन्यासादिकरणात् । द्वाभ्यांमुनिभ्यां त्रयाभ्यां मुनिभ्यां प्रवर्तितत्वात् द्विमुनि व्याकरणस्य त्रिमुनि व्याकरणस्येत्यादि भवति । यदा तु तद्वतामभेदविवक्षा तदा एकमुनि व्याकरणं द्विमुनि व्याकरणमित्यादि सामानाधिकरण्यं भवति । अथ जन्मना वंश्य मदाहरति-सप्त काशयो वंश्या राज्यस्य-सप्तकाशि राज्यस्य । राज्यस्येति कारणसम्बन्धे षष्ठी । अत्र काशे राज्ञोऽ-पत्यानीति 'दुनादि०' ।६।१।११८। इति ज्यः तस्य 'बहुष्वस्त्रियाम्' ।६।१।१२४। इति बहुत्वे लुपि 'काशयः इति अपत्यार्थप्रत्ययस्य लोपे सति प्रकृतिमात्रमपत्यार्थवाचि भवति, राज्यस्य जनकाः सप्तकाशिनृपतनया इत्यर्थः । यद्यपि राज्येन सह काशीनां न जन्यजनक भाक्लक्षणो जन्मसम्बन्धः, न वा विद्यासम्ब न्ध:, तथापि राज्यस्य प्रतिष्ठापका एव राज्यस्य जनकाः । अभेदविवक्षया सप्तकाशि राज्यमिति । द्विमुनिकं व्याकरणमिति-द्वौ मुनी बंश्यावस्येत्यन्यपदार्थे तु बहुव्रीहिरेव ।।२६॥
पारे-मध्य-ऽग्रेऽन्तः षष्ठ्या वा ।३।१।३०। एतानि षष्ठयन्तेन पूर्वपदार्थे समासोऽव्ययी-भावो वा स्युः । पारेगङ्गम् । मध्यगङ्गम् । अग्रवणम् । अन्तगिरि । पक्षे गङ्गा. पारम् । गङ्गामध्यम् । वनानम् । गिर्यन्तः ॥३०॥ पारं गङ्गाया-पारेगङ्गम्, मध्यं गङ्गायाः मध्येगङ्गम् अग्रं वनस्य-अग्रेवणम् । अन्तगिरेः-अन्तर्गिरम् ‘पारे-मध्येऽ ग्रे.' इति सूत्रीयनिर्देशसाम
ादेकारान्तता निपात्यते । अग्रेवणमित्यत्र 'निष्प्राग्रे०' ।२।३।६६। इति वनशब्दे नस्य णकारः । अन्तगिरमित्यत्र 'गिरि-नदी.' ७।३।१०। इति विकल्पे-न समासान्तोऽ-त् 'अवर्णवर्णस्य' ७।४।६८। इतीकारलोपः विकल्पपक्षे त्वन्तगिरीति भवति । वावचनात् पक्षे षष्ठीसमासोऽपि भवतिगङ्गायाः पारम्, गङ्गाया मध्यम्, वनस्याग्रम्, गिरेरन्तः इति विग्रहः 'षष्ठ ययत्नाच्छेषे०' १३।१७६। इति सूत्रेण समासः 'प्रथोमोक्त प्राक'