________________
( ६४ )
भावः स्यात् । द्वियमुनम् । पञ्चनदम् । समाहारेति किम् । एकनदी । द्विगुबाधनार्थं वचनम् ||२८||
अन्यपदार्थं इति निवृत्तम् । द्वयोर्यमुनयोः समाहारः द्वियमुनम् एवं पञ्चनदम् । अवाव्ययौभावत्वे 'संख्यायाः नदीगोदावरीभ्याम् ||३|१| इति समासान्तो 'अमव्ययी - भावस्या०' | ३|२|२| इति स्यादिविभक्त े रमादेश सिध्यति । यद्यपि द्विगौ द्वियमुनमित्यत्र पात्रादिपाठाभ्युपगमेन . 'द्विगोः समाहारात्' | २|४| २२ | इति ङीः प्रत्ययस्या - भावे नपुंसकत्वे हस्वत्वे "अतः स्यमो म्' | १|४|५७ | इति स्यमोरमादेशे अव्ययी - भावे च 'अमव्ययी०' | ३ |२| २| इति स्यमोरमादेशे च समानताऽस्ति तथापि द्विगौ सति द्वियमुनेन द्वियमुनायेत्यादि स्यात् इष्यते चापञ्चमीस्थले 'द्वियमुनम्' इत्येव । तच्याव्ययी - भावसंज्ञामन्तरेण न सिध्यतीति अव्ययीभाव-सञ्ज्ञाविधानम् । एवं पञ्चनदमित्यादौ च द्विगौ सति 'पञ्चनदि' इत्यादि स्यात् । एकनदीति - एका चासौ नदी च 'सर्वादयोऽ स्यादौ' | ३ |२| ६१ । इति पुयावः ॥२८॥
,
वंश्येन पूर्वार्थे |३|१||
विद्यया जन्मना वा एकसन्तानो वंशः । तत्र भवो वंश्यः । तद्वाचिना नाम्ना सङख्यावाचिसमासोऽव्ययीभावः स्यात् । पूर्वपदस्यार्थे वाच्ये । एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य । पूर्वार्थइति किम् । द्विमुनिका व्याकरणम् ॥२६॥
विद्यासम्बन्धस्य जन्मसम्बन्धापेक्षया प्राधान्यं बोधयितु' 'विद्यया' इति प्राथम्येनोपन्यासः, तत्र विद्यया सम्बन्धः उपदेश्योपदेशक- भावलक्षणोऽध्याप्याध्यापकभाव-लक्षणो वा जन्मना च सम्बन्धो जन्यजनकभावलक्षणः । एक एक्रस्वभावः सन्तानः परम्परेति यावत् । सन्तानिनामेकलक्षणत्वात्संतानोऽप्येक-स्वभावो भवति । एको मुनिर्वंश्यो व्याकरणस्य - एकमुनि व्याकरणस्य । मुनिशब्दो विद्यावंशवाचीति सूचनाय 'वंश्य' इत्युक्तम् आद्यः - कारणपुरुष इत्यर्थः । 'व्याकरणस्य' इति कारणसम्वन्धे षष्ठी,