________________
( ६३ )
सति 'इच्यस्वरे दीर्घ आच्च' | ३ |२| ७२ ॥ इति प्रथमकेशशब्दस्याकास्य दीर्घं आकारे वा 'अवर्णेवर्णस्य' | ७|४|६८ | इति द्वितीय केशशब्दस्याकारलोपे च 'केशाकेशि' इति समासरूपनाम्नः उत्पन्नायाः से: 'अनतो लुप्' | ३|२|६| इति लुपि 'केशाकेशीति सिद्धम् । एवं दण्डादण्डि - दण्डैश्च दण्डैश्च मिथः प्रहृत्य कृतं युद्धम् । मिथ इति क्रियाव्यतिहारः किम् - केशेषु च केशेषु च गृहीत्वा कृतं युद्धमनेन ॥२६॥
नदीभिर्नाम्नि |२||२७|
नाम नदीवाचिना संज्ञायामन्यपदार्थे समासोऽव्ययीभावश्च स्यात् । उत्तगङ्ग ं देशः । तूष्णीगङ्गम् । नाम्नीति किम् । शीघ्रगङ्गो देशः ॥ २७॥
,
उन्मत्ता गंगा यत्र स उन्मत्तगङ्गम् देशः । तूष्णीं गङ्गा यत्र सः इमे देशनाम्नी । 'परतः स्त्री० |३|२|४| इति पुंवद्भावः, 'द्वन्द्व कत्वाव्ययी भावी' इति लिङ्गानुशासनात् क्लीवत्वे 'क्लीबे' | २४|| इति ह्रस्वत्वे स्यादेः 'अमव्ययी०' | ३|२|२| इत्यमादेशश्च । नदीभिरित्यत्र बहुवचनं 'स्वं रूपं शब्दस्या०' इति न्यायैकदेशं 'स्वं रूपं शब्दस्य ग्राह्यम् इत्यंशस्य ज्ञापकं तथा च नदीशब्दात् स्वरूपस्य ग्रहणे प्रसक्तं नदी - विशेषाणां ग्रहणार्थं बहुवचन - मुपन्यस्तं 'स्वं रूपं शब्दस्य' इति न्यायांशस्य ज्ञापन- फलं तु 'कल्यग्नेरेयण' |६|१|१७| इति सूत्र- ग्निशब्दस्यैव ग्रहणन तु तत्पर्यायाणाम् । एवमन्यान्यपि फलान्युदाहरणीयानि । नदीभिरिति बहुवचननिर्देशात् तद्विशेषाणां स्वरूपस्य च ग्रहणात् गङ्गायमुना दिनदीविशेषाणां नदीशब्दस्य च ग्रहणं सिध्यति ततश्चोत्तरसूत्र ेण पञ्चनदम् इत्यत्त्राव्ययीभावसमासो भवति तथा द्वियमुनमित्यादावपि भवति । श्रोतस्विनी - निम्नगा - सिन्धु-प्रभृतीनां पर्यायाणां तु न ग्रहणम् || २७॥
1
सङ्ख्या समाहारे ।३।१८।
सङ्ख्यावाचि नदीवाचिभिः सह समाहारे गम्ये समासोऽव्ययी