________________
( ६२ )
रूढया दिग्वाचिनाम रूढ्यै-व दिग्वाचिना सहान्तराले ऽन्यपदार्थे वाध्ये-समासे बहुव्रीहिः स्यात् । दक्षिणपूर्वा दिक् । रूढ्योति किम् । ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ॥२५॥ रूढि:-समुदायशक्तिः । अन्तरालभूतोऽ-न्यपदार्थो-ऽपि दिगेव प्रत्यासत्तः, अत एवास्य नित्यस्त्रीलिङ्गता। दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालं सा . दक्षिणपूर्वा दिग्। दिशि वर्तमाना नित्यस्त्रीलिङ्गा एवेति ‘परतः स्त्री० ।३।२।४६। सूत्रेऽ प्राप्ते 'सर्वादयोऽ स्थादौ ।३।२।६१। सूत्रात्पु वद्भावः । इन्द्रो देवताऽ स्या दिशः सा ऐन्द्री। कुबेरो देवताऽ स्याः सा कौबेरी, एतौ शब्दो यौगिको, अतो न समासः किन्तु वाक्यमेव । ऐन्द्रीकौबेरीशब्दयोः योगेनावयवशक्त्यैव दिग्वाचकत्वं न तु रूढया ॥२५॥
तत्रादायमिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययी-भावः ।३।१।२६॥ तत्रेति सप्तम्यन्तं मिथ आदायेति क्रियाव्यतिहारे तेनेतितृतीयान्तं मिथः प्रहत्येतिक्रियाव्यतिहारे समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोव्ययीभावः स्यात् । केशाकशि । दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांश्च महोत्वा। मुखं च मुखं च प्रहृत्य कृतं युद्धम् । आदायेति प्रहत्येति च किम् । केशेषु च केशेषु च स्थित्वा, दण्डैश्च दण्डैश्चागत्य कृतं युद्धम् गृहकोकिलाभ्याम् । सरूपेणेति किम् । हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्धइति किम् । हस्ते च हस्ते चादाय सख्यं कृतम् ॥२६॥ काकाक्षिगोलकत्यायेन 'मिथः' प्रत्येकमभिसंबन्ध्यते । केशेषु च केशेषु मिथो गृहीत्वा कृतं युद्धं केशाके शि 'ऐकायें ।३।२८। इति स्यादेलु पि केशकेश' इति समासात् 'इज् युद्ध' ७।३।७४। इति समासान्ते इत्रि