________________
( ६१ )
एवं अन्तर्मध्ये अङ्गानि निमित्तानि यस्य स अन्तरङ्गः एवं बहिरङ्गः । 'तु कामोsस्य स कर्तृ कामः 'तुमश्च मनः कामे' | २|३ | १४० । इत्युभयत्र मलोपः, 'क्वातुमम्' | १|१| ३५ | इत्यव्ययत्वम् । सामानाधिकरण्ये तु अस्ति क्षीरमस्या अस्तिक्षीरा गौः 'एकार्थम् ०' | ३ | १ | २२ | इत्येकार्थेना-पि सिध्यति त्रियावचनत्वे तु त्वस्त्यादीनां 'नाम नाम्न्ये ० ' | ३|१|१८ । इत्यादिनैव बहुलवचनात् सिद्धम् ||२२|
उष्ट्रमुखादयः | ३|१|२३|
एते बहुव्रीहिसमासा निपात्यन्ते । उष्टुमुखमिव मुखमस्य उष्टुमुखः वृषस्कन्धः । ||२३||
वृषस्कन्धः --- वृषस्कन्ध इव स्कन्धोऽस्य । पूर्वसूत्र ेण समानाधिकरण्ये समासो विहितः प्रकृते तु पूर्वोत्तरपदयोरुपमानोपमेयवृत्तित्वान्न सामानाधिकरण्यमिति पूर्वसूत्रेण समासाप्राप्तौ समासः उत्तरपदादिलोपश्च निपात्यते । यद्वा उष्ट्रादय एव शब्दा वृत्तौ उपमानत्वेन स्थिताः स्वावयवपराः ।।२३।।
सहस्तेन | ३|१|२४|
तेनेति तृतीयान्तेन सहोऽन्यपदार्थे समस्यते । स च बहुव्रीहिः । सपुत्र आगतः । सकर्मकः || २४||
'सह' इत्येतन्नाम तुल्ययोगे विद्यमानार्थे च वर्तते । तुल्ययोगे - सह पुत्रण सपुत्र आगतः आगमनमुभयोस्तुल्यम् । विद्यमानार्थे - सह कर्मणा वर्तते सकर्मकः । विद्यमानता व सहार्थो न तु तुल्ययोगः । प्रथमान्तान्यपदार्थार्थं आरम्भः । एवमुत्तरत्रापि । 'सहस्य सोऽ - न्यार्थे । ३।२।१४३ | इति सादेश: 'सहात् तुल्ययोगे' ।७।३।१७८ । इति तुल्ययोगे कचो निषेधात् 'शेषाद् वा ' |७|३|१७५ । इति कजभावः ||२४||
दिशो रूढ्याऽन्तराले | ३|१|२५|