________________
( ६० )
अव्ययम् ।३।१।२१॥ अव्ययं नाम सङ्ख्यानाम्नैकार्थ्य समस्यते । द्वितीयाद्यन्याथै सङ्ख्येये वाच्ये स च बहुचीहिः । उपदशाः ॥२१॥ उप समीपे दश येषां ते-उपदशाः नवैकादश वा । योगविभागः उत्तरार्थः। ॥२१॥
एकार्थ चानेकं चा३।१।२२।
एकमनेकं चैकार्थ समानाधिकरणमव्ययं च नाम्ना द्वितीयाद्यन्तान्यपदस्याथै समस्यते, स च बहुमीहिः । आरूढवानरो वृक्षः । सुसूक्ष्मजटकेशः । उच्चमुखः ॥२२॥ एकः समानः अर्थः-अर्थोऽधिकरणं यस्य तदेकार्थ-समानाधिकरणम् । एकशब्दो हि नानार्थकः संख्यायां यथा एको द्वौ त्रयः इति । असहायार्थे यथा एकका आगताः, अन्या-झे यथा एके आचार्या प्राहुरिति, प्रधानार्थं यथाक्दतामेकः । अल्पा यथा नैके विनष्टाः,रथाश्च नैके व्यशीर्यन्तेति,अस्ति समाना यथा-वयमेकधर्माण इति-यदाह
___ 'एकोऽन्यार्थे प्रधाने च, प्रथमे केवले तथा ।
साधारणे समानेऽल्पे, संख्यायां च प्रयुज्यते ॥' .. इति तनायमेकः समानार्थो ग्राह्यः तथा चार्थशब्देन प्रवृत्तिनिमित्ताश्रयत्वेन विवक्षितं द्रव्यं ग्राह्यम् । अर्थशब्दोऽपि नानार्थकः अर्थः प्रयोजने धनेऽभिधेये च' तत्राभिधेयमिह गृह्यते । अधिकरणमिति-अधिकरणं च शब्दस्यार्थ एव आरूढ इत्यत्रशब्दद्वयस्य प्रवृत्तिनिमित्ताश्रय एक एवभूतकालिकारोहणक्रियाश्रयत्वंवानरत्वं चोभयोः प्रवृत्तिनिमित्ते,तयोराश्रयो वानर एक एवेति भवति तयोरेकार्थत्वम् । आरूढो वानरो यं सआरुढवानरो:वृक्षः। शोभना:सूक्ष्मजटाः केशा अस्य स सुसूक्ष्मजटकेश: अयं बहुब्रीहिगर्भो बहुव्रीहिममासः प्रथमं मूक्ष्मा जटा येषां केशानामिति द्विपदबहुव्रीहिणा सूक्ष्मजटरशब्दं निष्पाद्य ततोऽनेन त्रिपदबहुव्रीहिविधानात् । उच्चमुखमस्व सउच्चमुखः । अत्र व्यधिकरणत्वान्न प्राप्नोतीति चकारोऽव्ययानुकर्षणार्थ उपात्तः