________________
( ५६ )
त्रय इत्यादिः । ऊनविंशत्यादिषु च ऊनविंशतिर्विशतिर्वा घटाः, घटानामूनविंशतिरिति च भवति ।।१६॥
आसन्नादूराधिकाध्यद्धा दिपूरणं द्वितीयाद्यन्यार्थे ।३।१।२०। आसन्नादि अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम सङ्ख्यानाम्न. कार्ये समासः स्यात् । द्वितीयाद्यन्तस्यान्यपदस्याणे सङ्ख्येये वाच्य, स च बहुव्रीहिः । आसन्नदशाः। अदूरदशाः। अधिकदशाः । अर्घ्य विशाः । अर्द्धपञ्चविंशा ॥२०॥ अर्धपूर्वपदञ्च पूरणप्रत्ययान्तं नामेति-अर्धशब्द: आदि पूर्वपदं यस्य स चासौ पूरणश्च 'सङ्ख्यापूरणे'।७।१।१५५।इत्यधिकृत्य विधीयमानःपूरणार्थकः प्रत्ययः,प्रत्यये च तदन्तविज्ञानादुक्त पूरणप्रत्ययान्तमिति । नाम्नो वि. शेषणत्वात् नपुसकत्वम् । आसन्नदशाःइति-आसन्ना दश दशत्वं येषां येभ्यो वा 'प्रमाणीसंख्या० ।७।३।१२८। इति ड: नवैकादश वेत्यर्थः । 'आदशभ्यः संख्या०' इति न्यायस्य प्रायिकत्वादत्र दशशब्दः सङ्ख्यायां वर्ततेऽत एव दशत्वमिति पर्यायः प्रदशितः एवम-दूरदशाः । अधिकदशाः इति अधिका दश येभ्यो येषु वा ते अधिकदशा एकादशादयः अधिकत्वं च दशानामेकाद्यपेक्षम् । अवयवेन विग्रहः समुदायः समासार्थः । अत्राल्पीयोवाची अधिकशब्दो गृह्यतेऽत एव विग्रहवाक्ये 'अधिकेन भूयसस्ते' ।२।२।१११। इति विहिते पञ्चमीसप्तम्यौ प्रदर्शिते । अध्य
विशा इति-अध्यर्दा विंशतिर्येषां तेऽध्यर्द्ध विशा: त्रिंशदित्यर्थः 'प्रमाणी० ७।३।१२। इति । विंशतेस्तेडिति' ७।४।६७। इति तेर्लोप । अर्धा पञ्चमी यासां ताः 'पूरणीभ्यस्तत्प्राधान्येप्' ।७।३।१३०। इति सूत्रेण अप् समासान्ते 'अवर्णेवर्णस्य' ।७।४।६८। इतीकारलोपे 'आत्' ।२४।१८। इत्यापि जसि च अर्धपञ्चमाः विंशतयो येषान्ते अर्धपञ्चविंशाः ‘एकार्थ चानेकं च' ।३।१।२२। इत्यनेनैव सिद्ध प्रतिपदविधानं डप्रत्ययविधावेतबहवी हिग्रहणाथं तेनासन्ना दशयेषान्ते आसन्नदशा इत्याहदावेवडः स्यात् एकार्थञ्चानेकञ्च'।३।१।२२।इत्येतत्सूत्रनिष्पन्ने तु डो न स्यात यथा प्रिया दश येषान्ते प्रियदशानः । एवमुत्तरसूत्रेऽपि ॥२०॥