________________
( ५८ )
न तु द्रव्यस्य । विस्पष्टमिति नपुंसकम् । अत एव मुख्यस्य सामानधिक - र नास्तीति कर्मधारय तत्पुरुषाभावः । दारुणमध्यायकः दारुणाध्यायकः । अत्र क्रियाविशेषणस्य क्रियावता समासः । सर्वश्चर्मणा कृतः सर्वचर्मण: 'सर्वच - र्मणः ईनेन' | ६ | ३|१६५ । इति ईने 'नोऽपदस्य तद्धिते | ७|४ | ६१ । इत्यन्त्यस्वरादेरनो लोपे नस्य णत्वे च सर्वचर्मीणः । सर्वश्चर्मणा कृत इत्यत्र सर्वशब्दस्य कृतः इत्यनेन सम्बन्धो न तु चर्मणा । समासस्तु सर्व चर्मणोरिति सामर्थ्याभावान्न केनाऽपि समासप्राप्तिरित्यनेन समासः । कम्येइव इत्यत्र केनापि सूत्रान्तरेणाप्राप्तीअनेन समासो विभक्त र्लोपाभावश्च विज्ञेयः । 'ईदूदे० ' |१| २|३४ | इत्यसन्धिः । श्रतः पूर्वमिति श्रुतपूर्वः । बहुलवचनात् अनुव्यचलत् अनुप्रावर्षत् इत्यत्रानाम्नाऽपि समासो भवति । नित्यसंध्यादि समासफलम् समासस्य च नामत्वेऽपि संख्यायास्त्यादिभिरेवोक्तत्वातु स्यायो न भवन्ति पदत्वार्थमुत्पन्नस्य वा प्रथमैकवचनस्य त्याद्यन्तार्थप्राधान्यात् नपुंसकत्वे लोपो भवति ॥ १८ ॥
सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः | ३ | १|१६| सुजsर्थो वारो, वार्थी विकल्पः संशयो वा । तद्वृत्तिसङ्ख्यावाचिनामसङ्ख्येयार्थेन सङ्ख्यानाम्ना सहैकार्थे समासो बहुव्रीहिश्च स्यात् । द्विदशाः । द्वित्राः । सङ्ख्येति किम् । गावो वा । सङ्ख्ययेति किम् ? दश वा गावो वा । सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् ॥ १६ ॥
दश वा
सुजिति - 'द्वित्रि ० ' । ७ २ ११० । इति द्विदंश - दिर्दशाः । द्वो वा त्यो वा द्वियाः । अत्र 'प्रमाणीसंख्या : ० ' | ७|३|१२८ । इति उप्रत्ययः 'आदशभ्यः सङ्ख्या संख्येये वर्तते तु संख्याने' इति न्यायात् यावद् दशशब्दश्रवणं तावत्पर्यन्तं संख्या=तद्वाचकशब्दः सख्येये संख्याविशिष्टे द्रव्यादौ न तु संख्याने परिच्छेदे इत्यर्थः, ततः परम् एकोनविंशत्यादिसंख्या संङ्खयेये संख्याने च वर्तते । तस्मात् अष्टादशपर्यन्तं संख्यावाचकस्य शब्दस्य संख्येयेन सह " सामानाधिकरण्येनैव प्रयोगः ततः परं सामानानिकरण्येन वैयधिकरण्येन च । एको घटः, द्वौ घटौ, यो घटाः, इत्यादि यावदष्टादश घटा न तु घटानां