SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ( ५७ ) गमने समर्थमध्वाभिमुखं । वा कृत्वेत्यर्थः 'उपसर्गाद०' ७३७८॥ इति सूत्रेणात्समासान्तः 'नोऽ पदस्यः' ७४।६१। इति सूत्रेण न-लोपः ततोऽम् 'अतः स्यमोऽ-म्' ।१।४।५७। ॥१६॥ जीविकोपनिषदौपम्ये ।३।१।१७। एतावौपम्ये कृग्योगे गती स्याताम् । जीविकाकृत्य । उपनिषस्कृत्य ॥१७॥ जोविका-जीवनोपायः उपनिषत् - रहस्यम् । जीविकामिव उपनिषदमिव कृत्वेत्वर्थः । जीवत्यनया जीविका 'नाम्नि पुसि च' ।५।३।१२१। इति नाम्नि स्त्रियां णकः अस्या०।२।४।१११। इत्यस्येकारः। षद्लु विशरणादो' अतः सम्पदादित्वाविवपि 'सदोऽप्रते०' ।२।३६४४इति षत्वे च उपनिषद् । जीविका चोपनिषच्चानयोः समाहार इति जीविकोपनिषद्, सौत्रत्वात् समासान्तविधेनियत्वाद वा 'चवर्गद०७३।१८। इत्यत्समासान्तो न विहितः । उपमानमुपमा, भिदादित्वाङ् उपमैब औपम्यं भेषजादित्वाट् ट्यण् तस्मिन् । औपम्याभावे तु न भवति जीविकाम् उपनिषदं कृत्वा गतः ।।१७११ नाम नाम्नकाक्षं समासो बहुलम् ।३।१।१८॥ नाम नाम्ना सहकार्ये सामर्थ्य विशेषे सति समासो बहुलं स्यात्। लक्षणमिदमधिकारश्च तेन बहुव्रीह्यादिसंक्रमाऽभावे यत्रैकार्थता । तत्रानेनैव समासः । विस्पष्टपटुः । दारुणाध्यायकः । सार्वचर्मीणो रथः । कन्येइव । श्रुतपूर्वः । नामेति किम् । चरन्ति गावो धममस्य नाम्नेति किम् ? चेत्रः पचति ॥१८॥ विस्पष्टं पटु विस्पष्टपट: अत्र गुणविशेषणस्य गुणवचनेन समासः। पटशब्द: पाटवविशिष्टद्रव्यस्य वाचकः तत्र पाटवस्य विस्पष्टमिति विशेषणम्
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy