________________
एते च्व्यर्थवृत्तयः क गयोगे गतयो वा स्युः । साक्षात्क त्य । साक्षात्क त्वा । मिथ्याक त्य । मिथ्याक त्वा ॥१४॥ साक्षात्कृत्य साक्षात्कृत्वेति-असाक्षाद्भूतं साक्षाद्भूतं कृत्वेत्यर्थः । मिथ्याकृत्य मिथ्याकृत्वेति-अमिथ्याभूतं मिथ्याभतं कृत्वेत्यर्थः । यदा साक्षाद्-.. भूतमेव किंचित् करोति तदा व्यर्थाभावात् साक्षात्कृत्वेत्येव भवति । विप्रत्ययो विकल्पेन भवति। व्यन्तानां तु 'ऊर्याद्यनू०' ।३।१।२। इति . . नित्यमेव गतिसंज्ञा तेन लवणी कृत्य-उष्णीकृत्येत्यादी मान्तत्वं न भवति एतत्सूत्रविहितगति-संज्ञासन्नि-योग एव मान्तत्वस्य निपातनात् । लवणम्, उष्णमपि साक्षादादिः ।।१४।। ।
नित्यं हस्तेपाणावुद्वाहे ।३।१।१५॥ एतावव्ययावुद्वाहे गम्ये नित्यं कृग्योगे गतो स्याताम् । हस्तेकृत्य । पाणौकृत्य । उद्वाहइति किम् । हस्ते कृत्वा काण्ड गतः ॥१६॥ एतौ सप्तम्यन्तप्रतिरूपकावव्ययौ । उद्वाहे विवाहः पाणिग्रहणमिति यावत् । हस्ते-कृत्य पाणी-कृत्येति-भार्यां कृत्वेत्यर्थः । हस्ते कृत्वा काण्डं गतः इति काण्डं शरं स्वीकृत्येत्यर्थः । नित्यग्रहणाद् वानिवृत्तिः ॥१५॥ प्राध्वं बन्धे ।३।१।१६।
प्राध्वमित्यव्ययं बन्धार्थ कृग्योगे गतिः स्यात् । प्राध्वंकृत्य । बन्ध इति किम् । प्राध्वंकृत्वा शकटं गतः ॥१६॥ 'प्राध्वम्" इत्येतन्मकारान्तमव्ययमानुकल्ये वर्तते तच्चानुकूल्यं बन्धहेतुकं भवति तदा कार्यकारणयोरभेदोपचाराद् बन्ध इत्युच्यते अनेकार्थत्वाद् वा मुख्य एवास्य बन्धो-ऽर्थः । प्राध्वङ्कत्येति-बन्धनेना नुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे प्राध्वं कृत्वेति । प्राध्वं कृत्वा शकटं गत इति-प्रगतम-ध्वानं प्राध्वम् अध्व