________________
. ५५ )
मनसि-कृत्येत्यादि-उभयत्र निश्चित्येत्य-र्थः । अत्याधानेऽर्थे तु न भवति मध्ये कृत्वा धान्यराशि स्थिता हस्तिनः धानिराशिमुपश्लिष्येत्यर्थः, पदे कृत्वा शिरः शेते पदमुपश्लिष्येत्यर्थः, मनसि कृत्वा सुखं शेते-मनसि सुखंधृत्वेत्यर्थः, उरसि कृत्वा पाणि शेते उरोदेशं पणिना उपस्पृश्येत्यर्थ । अव्ययमित्येव-मध्ये कृत्वा वाचं तिष्ठतीत्यादौ अन्तराले कथयित्वेत्यर्थः । अत्र मध्यशब्दस्य सप्तम्येकवचने 'मध्ये' इति रूपं न त्वव्ययमिति गति सज्ञा न भवति ॥११॥
उपाजेऽन्वाजे ।३।१।१२।
एतावव्ययौ दुर्बलस्य भग्रस्य दा बलाधानार्थी कृग्योगे गती वा स्याताम् । उपाजेकृत्य । उपाजे कृत्वा। अन्वा-जे-कृत्य । अन्वाजे कृत्वा . । १२॥ एते अव्यये सप्तम्येकवचनान्तप्रतिरूप के । उपाजे-कृत्येत्यादि-दुर्बलस्य भग्नस्य वा बलाधानं कृत्वेत्यर्थः । दुर्बलस्य बलाधानं वचनादिना प्रोत्साहनादि, भग्नस्य परेण पराजितस्य च बलाधानमपि तदुत्साहसम्पादनादिक्रिया ॥१२॥
स्वाम्येऽधिः ।३।१।१३॥
स्वाम्ये गम्बे-ऽधीत्यव्ययं कृगयोगे गति-र्वा स्यात् । चैत्र ग्रामे • अधिकत्य । अधिक त्वा वा गतः। स्वाम्य इति किम् । ग्राममधिक त्य उद्दिश्येत्यर्थः ॥१३॥ स्वामी-ईश्वरः तस्य भावः स्वाम्यं तस्मिन् इत्यर्थः । चैत्र ग्रामेऽ धिकृत्याधि कृत्वा वा गतः स्वामिनं कृत्वेत्यर्थः । ग्राममधिकृत्येति-चिन्तया ग्राममुहिश्येत्यर्थः । उपसर्गसंज्ञकत्वाद् 'ऊर्याद्य०' ।३।१।२। इति नित्यं गति-संज्ञा ततश्च समासो यबादेशश्च सिद्धः ।।१३॥ साक्षादादिश्चव्यर्थे ।३।१।१४॥