________________
(
५४
)
अच्छगत्य । अच्छोद्य ॥८॥ अन्छेत्यव्ययमाभिमुख्ये दृढार्थे च वर्तते । अच्छगत्येति-अभिमुख गत्वेत्यर्थः । अच्छोद्येति अभिमखं दृढं वा उक्त्वेत्यर्थः ।।८।।
तिरो-ऽन्तद्धौं ।३।१६। तिरो-ऽन्तद्धौं गतिः स्यात् । तिरोभूय ॥६॥ तिर:-शब्दोऽन्तद्धौं व्यवधाने वर्तमानो गतिसंज्ञो भवति । तिरस् अन्तर्द्ध चवज्ञातिर्यग्भावेषु । अन्तर्द्धय पचारात अवज्ञा-ऽप्यन्तद्धिरित्यर्थद्वयमस्यात्र विज्ञेयम् । तिरो-भयेति-व्यवहितो भत्वा तिरोधानं व्यवधानं कृत्वेति तदर्थः । तिर्यग्भावेऽर्थे तु न गतिसज्ञा भवति । तिरो भूत्वा ऊर्ध्वस्थितस्तिर्यग्वलित्वेत्यर्थः ॥६॥ .
कृगो नवा ।३।१।१०। तिरोऽन्तद्धौ कृगः सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य । तिरःकृत्य । पक्षे तिरः कृत्वा ॥१०॥ तिरः कृत्वेति-अत्र गतिसंज्ञाभावपक्षे न समांसादिः न वा सकारः । तिर्यग्भावे तु न भवति-तिरः कृत्वा काष्ठं गतः ऊध्वं स्थितं काष्ठं तिर्यक कृत्वेत्यर्थः ॥१०॥
मध्येपदेनिवचनेमनस्य रस्यनत्याधाने ।३।१।११।
अनत्याधानमनुपश्लेषोऽनाश्चर्य वा । तदृ त्तय एते ऽव्ययाः कृगयोगे गतयो वा स्युः । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे . कृत्वा। निवचनेकृत्य । निवचने कृत्वा । मनसिकृत्य। मनसि कृत्वा । उरसिकृत्य । उरसि कृत्वा ॥११॥