________________
।
५३ )
अग्रहोऽ स्वीकार:, अन्तर्हत्य-मध्ये हिंसित्वा शन न गत इत्यर्थः । स्वयं परामर्शोऽ-नुपदेशः विशेषाऽ-नाख्यानं वा । अदः कृत्यैतत्कर्तेति ध्यायति चिन्तयतीत्यर्थः । निर्दिष्टार्था-भावे तु न भवति-अन्तर्हत्वा मूषिकां श्येनो गतः परिगृह्य गत इत्यर्थः, अदः कृत्वा गत इति परस्य कथयति । अदस्शब्दस्त्यदादौ, अव्ययमिति केचित् ॥५॥
कणेमन-स्तृप्तौ ।३।१॥६॥ एतावव्ययौ तृप्तौ गम्यमानायां गती स्याताम् । कणेहत्य । मनोहत्य पयः पिबति । तृप्ताविति किम् ? तण्डुलावयवे कणे हत्या ॥६॥
कणेहत्य मनोहत्य पयः पिबतीति कणे इति सप्तम्यन्त-प्रतिरूपकमव्ययमभिलापातिशये वर्तते एवं मन:-शब्दोऽ-प्यत्रैव । अत्यन्तमभिलष्य तन्निवृत्तिपर्यन्तं पिबत्रीत्यर्थः। तण्डलावयवे कणे हत्वेति-तण्डलस्य सूक्ष्माशं विनाश्ये गत इत्यर्थः । मनो हत्वा गतः, चेतो हत्वेत्यर्थः ॥६॥
पुस्तमव्ययम् ।३।१७। एतावव्ययौ गती स्याताम् । पुरस्कृत्य । अस्तगत्य । अव्ययमिति किम् । पुरः कृत्वा नगरीरित्यर्थ ॥७॥ पूर्वपर्यायः पुरः-शब्द:-अनुपलब्ध्यर्थोऽ-स्तंशब्द: अस्तंगत्य पुनरुदेति सविता। पुरः कृत्वा नगरीरित्यर्थः इति । 'नमस्पुरसो०' ।२।३।१। इति सकारोऽप्यत्र न भवति ॥७॥
. गत्यर्थवदो-च्छः ।३।१।८।
अच्छेत्यव्ययं गत्यर्थानां वदश्च धातोः सम्बन्धि गतिः स्यात् ।