________________
( ५२ )
विद्यत् । पटपट कृत्येति - अव्यक्ता० |७|२|१४५ । इति डाच्प्रत्यये प्रकृतेद्विभावश्च । खाट् इत्यनुकरणशब्दोऽ त्युत्पन्नः एवमन्यत्र ज्ञेयम् ||२||
कारिका स्थित्यादौ |३|१|३|
स्थित्यादावर्थे कारिका गतिः स्यात् । स्थितिर्मर्यादा वृत्तिर्वा । कारिकाकृत्य || ३ ||
करणं कारिका भावे णकः । कारिका - करणं पूर्वम् इति वाक्येऽपि अनेन गति संज्ञायाम् । अव्ययस्य | ३|२|७| इति षष्ठ्या लुप् । स्थित्यादिरित्यत्रादिशब्दात् यत्न-धात्वर्थ-निर्देशौ गृह्यते । कारिकाकृत्य- स्थिति यत्नं क्रियां वा कृत्वेत्यर्थः । गतिसंज्ञया समास - यबा देश - तागमा- बोद्धव्याः । स्थित्याद्यर्थाभावे तु न भवति कारिकां कृत्वा कर्त्री कृत्वेत्यर्थः । श्लोकवाचिनः कारिका -: शब्दस्य तु सत्यपि धातुसम्बन्धसम्भवे प्रयोगादर्शनाद् ग्रहणाभाव इति
11311
भूषादरक्षेपेऽलं - सदसत् । ३|१|४|
एष्वर्थेष्वेते यथासंख्यं गतयः स्युः । सत्कृत्य, असत्कृत्य । अलङ्कृत्य । भूषादिष्विति किम् । अलङ्कृत्वा मा कारीत्यर्थः
भूषा - मण्डनम् प्रीत्या संभ्रमः आदर:, क्षपोऽ नादरः । अलकृत्वा अत्र निषेधार्थोऽलंशब्द:, माङा योगेऽ द्यतन्यां ' कारि' इति प्रयोगः, एवं सत्कृत्वा विद्यमानं कृत्वेत्यर्थः असत्कृत्वा अविद्यमानं कृत्वेत्यर्थः, अत्रापि भूषाद्यर्था - भावान्न भवति || ४ ||
=
अग्रहाऽनुपदेशे ऽन्तरदः | ३|१|५|
अनयोरर्थयोरेतौ यथासंख्यं गती स्याताम् । अन्तर्हत्य | अद:कृत्यैतत्कर्त्तेति ध्यायति ॥ ५ ॥