________________
॥ अथ तृतीयाध्याये तृतीयः पादः ॥
धातोः पूजार्थस्वतिगतार्थाधिपर्यति-क्रमार्थाऽतिवर्जः प्रादिरुपसर्गः, प्राक् च ॥३॥१॥१॥ धातोः सम्बन्धी तदर्थद्योती प्रादिरुपसर्गः स्यात् । स च धातोः प्राक् न परो न व्यवहितः पूजाथी स्वती गतार्थावधिपरी अतिक्रमार्थमतिञ्च वर्जयित्वा। प्रणयति । प्ररिणयति । धातोरिति किम् । वृक्षं वृक्षमभिसेकः पूजार्थस्वत्यादिवर्जनं किम् । सुसिक्तम् । अतिसिक्तम् । भवता । अध्यागच्छति आगच्छत्यधि । पर्यागच्छति । आगच्छति परि। अतिसिक्त्वा । धातोरिति प्राक्
चेति च गतिसंज्ञां यावत् ॥१॥ प्र परा अप सम् अनु अव निस् दुस् निर् दुर् वि आङ् नि अधि प्रति परि उप अति अपि सु उत्: अभि इति प्रादिः । अध्यागच्छति आगच्छत्यधि इत्यत्र उपरिभावः, सर्वतोभावश्च प्रकरणादेः प्रतीयते इति गतार्थत्वम् । प्राक-शब्दस्याव्यवहिते वर्तनादाह न पर इत्यादि । धातोरिति प्राक इति च गतिसंज्ञां यावदनुवर्तते ।।१॥
• ऊर्याद्यनुकरणविडाच-श्च-गतिः ।३।१२। एते उपसर्गाश्च धातोः सम्बन्धिनो गतयः स्युस्ते च प्राग् धातोः । ऊर्यादिः-ऊरीकृत्य । उररीकृत्य । अनुकरणम्खाटकृत्य । च्व्यन्तः-शुल्कीकृत्य । डाजन्तः-पटपटाकृत्य । उपसर्गः प्रकृत्य ॥२॥ ऊरीउररी अंगीकरणे विस्तारे च । खाडिति कृत्वा खाट्कृत्य गता